वाचस्पत्यम्
शिप्र || पु० शि—रक् पुक् च । १ सरोवरभेदे २ पदीभेदे स्त्री । “एवं विवाह्य विधिवत् सौवर्णे मानसाचले । अरुन्थतीं वशिष्ठस्तु मोदमाप तया सह । तत्र यत् पतितं तोयं मानसाचलकन्दरे विवाहावभृतार्थाय शान्त्यर्थं वसु- धातले । ब्रह्मविष्णुमहादेवपाणिभिः समुदीरितम् । तत्तीय सप्तधा भूत्वा पतितं मानसाचयात् । हिमाद्रेः कन्दर सानौ सरस्याञ्च पृथक् पृथक् । ततीयं पतित शिप्रे देवभोग्ये सरोवरे । तेन शिप्रा नदी जाता वि- ष्णुना प्रेरिता कितिम्” कालिखा० २३ अ० । “ततो हिमवतः प्रस्थे प्रतीच्यां तत्पुरस्य च । शिप्रं नाम सरः पूर्णं ददृशुर्द्रुहिणादयः । तद्रहः स्थानमा- माद्य ब्रह्मशकादय सराः । उपविष्टः यथान्याकं सुरस्कृत्य महेश्वरम् । तं शिप्रसंज्ञकासारं मनोज्ञं सव- देहिनाम् । शोतामलजल सर्वैर्गुणैर्मानससाम्सतम् । दृष्ट्वा क्षण हरस्तस्मिन् सौत्सुक्योऽभूदवेक्षणे । शिप्रां नाम नदीं तस्मान्निःसृता दक्षिणोदधिम् । गच्छन्तीञ्च ददर्शासौ पावयन्तीं जगज्जनान्” । तत्रैव १९ अ० ।
शब्दकल्पद्रुमः
शिप्रः || पुं, सरोवरविशेषः । यथा, —
“एवं विवाह्य विधिवत् सौवर्णे मानसाचले । अरुन्धतीं वशिष्ठस्तु मोदमाप तया सह ॥ तत्र यत् पतितं तोयं मानसाचलकन्दरे । विवाहावभृतार्थाय शान्त्यर्थं वसुधाकृतम् ॥ ब्रह्मविष्णुमहादेवपाणिभिः समुदीरितम् । तत्तोयं सप्तधा भूत्वा पतितं मानसाचलात् ॥ हेमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक् । तत्तोयं पतितं शिप्रे देवभोग्ये सरोवरे । तेन शिप्रा नदी जाता विष्णुना प्रेरिता क्षितिम् ॥” इति कालिकापुराणे २३ अध्यायः ॥