वाचस्पत्यम्
शिफाकन्द || पु० शिफेव कन्दः । पद्ममूले अमरः ।
शब्दकल्पद्रुमः
शिफाकन्दः || पुं, (शिफायुक्तः कन्दो यस्य ।)
पद्म- मूलम् । तत्पर्य्यायः । करहाटः २ । इत्यमरः ॥ शिफाकः ३ । इति शब्दरत्नावली ॥ पद्मकन्दः ४ कर्कटः ५ । इति जटाधरः ॥ शिफा ६ कन्दः ७ । इति मुकुटधृतस्वामी ॥