शब्दकल्पद्रुमः
शिमृडी || स्त्री क्षुपविशेषः । चाङ्गोनि इति हिन्दीभाषा । तत्पर्य्यायः । मतिदा २ बल्या ३ पङ्गुल्यहारिणी ४ द्रवत्पत्री ५ वातघ्नी ६ गुच्छ- पुष्पी ७ । अस्या गुणाः । कटुत्वम् । उष्णत्वम् । वातपृष्ठशूलनाशित्वम् । रसायने युक्ता चेत् देहदार्ढ्यकारित्वञ्च । इति राजनिर्घण्टः ॥