वाचस्पत्यम्
शि(सि)म्बा || स्त्री शाम्यति समति वा शम—सम—वा वा० डम्बच् पृषो० । (छिनी) ख्याते १ पदार्थे शब्दच० । २ चक्र- मर्दे पु० शब्दच० ।
शब्दकल्पद्रुमः
शिम्बा || स्त्री (शिम्ब + टाप् ।)
कलयादित्वक् । सुँटी इति छिम्डा इति च भाषा । तत्- पर्य्यायः । समी २ । इत्यमरः ॥ सिम्बा ३ सिम्बी ४ शिम्बी ५ शिम्बिका ६ शमी ७ सिम्बिका ८ शिम्बिः ९ । इति शब्दरत्नावली ॥ शमिः १० । इति हेमचन्द्रः ॥