संस्कृत-शब्दकोशः

शिम्बीपर्णी शिरःकपालिन्

शिर

वाचस्पत्यम्

शिर ||‍ न० शॄ—क । १ मस्तके जटा० “पिण्डं दद्यात् गयाशिरे” वायुपु० । २ पिप्पलीमूले मेदि० । ३ शय्यायाम् ४ अजगरे च संक्षिप्तसा० ।


शब्दकल्पद्रुमः

शिरः || पुं, पिप्पलीमूलम् । इति मेदिनी । मस्त- कम् । इति जटाधर ॥ (यथा, —
“पिण्डं दद्यात् गयाशिरे ।” इति वायुपुराणम् ॥ “शिरो वाटी शिरोऽदन्तो रजोवाटी रजस्तथा ।” इति कोषान्तरम् ॥)
शय्या । अजगरः । इति संक्षिप्तसारोणादिवृत्तिः ॥



Correction: