वाचस्पत्यम्
शिरोग्रह || पु० “रक्तमाश्रित्य पवगः कुर्य्यात् शृङ्गधराः शिराः । रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्याच्छिरोग्रहः” भावप्र० उक्ते वातरोगभेदे “शृङ्गधरा ग्रीवागताः स पवनः शिरोग्रहः स्यादित्यन्वयः” भावप्र०