वाचस्पत्यम्
शिरोधि || स्त्री शिरो धीयतेऽत्र धा—कि । ग्रीवायाम् अमरः
शब्दकल्पद्रुमः
शिरोधिः || स्त्री (शिरो धीयते अनया । धा + “कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः ।) ग्रीवा । इत्यमरः ॥