संस्कृत-शब्दकोशः

शिरोधि शिरोमर्मन्

शिरोमणि

वाचस्पत्यम्

शिरोमणि ||‍ पुंस्त्री० शिरसि धार्थ्योमणि शा० त० । शिरोधाय्य रत्ने चूडामणौ शब्दच० । स्त्रीपक्षे वा ङीप् । शिरो- रत्नादयोऽप्यत्र न० ।


शब्दकल्पद्रुमः

शिरोमणिः || पुं स्त्री, (शिरसो मणिः ।)
मस्तक- धार्य्यरत्नम् । तत्पर्य्यायः । चूडामणिः २ शिरो- रत्नम् ३ । इति शब्दरत्नावली ॥ पण्डितस्य उपाधिविशेषश्च ॥ (द्वयोरुदाहरणम् । यथा, —
“यस्य सांसारिकी चिन्ता चिन्ता चिन्तामणेः कुतः । तयैव हि शिरःकम्पः क्व शिरोमणिधारणम् ॥” इत्युद्भटः ॥)



Correction: