वाचस्पत्यम्
शिरोरुह || पु० शिरसि राहति रुह—क । केशे अमरः ।
शब्दकल्पद्रुमः
शिरोरुहः || पुं, (शिरसि रोहतीति । रुह + कः ।) केशः । इत्यमरः ॥ (यथा, भागवते । ४ । २८ । ४४ । “चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा ॥”)