वाचस्पत्यम्
शिरोरोग || पु० ६ त० सुश्रुतोक्ते मस्तकरोगभेदे तल्लक्षणं यथा अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः । शिरो रुजति गर्त्त्यानां वातपित्तकफैस्त्रिभिः ३ । सन्निपा तेन ४ रक्तेन ५ क्षयेण ६ क्रिमिभि ७ स्तथा । सूर्य्यावर्त्ता ८ न्तबाता ९ र्द्धावभेदक १० शङ्खकैः ११ । एकादशप्रकारस्य लक्षण सप्रवक्ष्यते । यस्यानिमित्त शिरसो रुजश्च भवन्ति तीत निशि चातिमात्रम् । बन्धोपताप्रैश्च भवेद्विशेषः शिरो- ऽभितापः स समोरणेन १ । यस्योष्णमङ्गारचितं यथैव मवेच्छिरो धूमवती च नासा । शीतेन रात्रौ च भवेद्वि- शेषः शिरोऽभितापः स तु पित्तकोपात् २ । शिरोनलं यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमञ्च । शूनाक्षिकूटं वदनं च यस्य शिरोऽभितापः स कफप्रकोपात् ३ । शिरो- ऽभितापे त्रितयप्रवृत्ते ४ सर्वाणि लिङ्गानि समुद्भवान्त । रक्तात्मकः ५ पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च । वसाबलासक्षतसम्भवानां शिरोगतानामिह संक्षयेण । क्षयप्रवृत्तः ६ शिरसोऽभितापः कष्टो भवेदु- ग्ररुजोऽतिमात्रम् । संस्वेदनच्छर्दनधूमनस्यैरसृग्विमो- क्षैश्च विवृद्धिमेति । निस्तुद्यते यस्य शिरोऽतिमात्रं सन्तक्ष्यमाणं स्फुरतीव चान्तः । ध्राणाच्च गच्छेत्सलिलं सरक्तं शिरोऽभितापः कृमिभिः ७ स घोरः । सूर्य्योदयं या प्रतिमन्दमन्दमक्षिभ्रुवंरुक् समुपैति गाढम् । विव- कन चांशुमता सहैव सूर्य्यापवृतौ विनिवर्त्तते च । शातेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुख- माप्नुयाच्च । तं भास्करावर्त्त ८ मुदाहरन्ति सर्वात्मकं कष्टतमं विकारम् । दोषास्तु दुष्टास्त्रय एव मन्यां संपीड्य घाटां सरुजां सुतीव्राम् । कुर्वन्ति साक्षिभ्रुव- जखदेशे स्थितिं करोत्याशु विशेषतस्तु । गण्डस्य पार्श्वेषु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान् । अनन्त- वातं ९ तमुदाहरन्ति दोषत्रयोत्थं शिरसोविकारम् । यस्योत्तमाङ्गार्द्धमतीव जन्तोः सम्भेदतोदभ्रमशूलजुष्टम् । यक्षाद्दशाहादथ वाप्यकस्मात्तस्यार्द्धभेदं १० त्रितयाद्व्यव- स्येत् । शङ्खाश्रितो वायुरुदोर्णवेगः कृतामुयात्रः कफपित्तरक्तैः । रुजः सुतीब्राः प्रतनोति मूर्ध्रि विशे षतश्चापि हि शङ्खयोस्तु । सुकष्टमेनं खलु शङ्खकाख्यं ११ महर्षयो वेदविदः पुराणाः । व्याधि वदन्त्युद्गतमृत्युकल्पं भिषक्सहस्रैरपि दुर्निवारम्” ।
शब्दकल्पद्रुमः
शिरोरोगः || पुं, (शिरसो रोमः ।)
मस्तकपीडा । यथा, — अथ शिरोरोगाधिकारः । अत्र शिरोरोगस्य निदानं सख्याञ्चाह । “शिरोरोगास्तु जायन्ते वातपित्तकफैस्त्रिभिः । सन्निपातेन रक्तेन क्षयेण कृमिभिस्तथा ॥ सूर्य्यावर्त्तानन्तवातशंखकार्द्धावभेदकाः । एकादशविधस्यास्य लक्षणानि प्रचक्षते ॥” शिरोरोगा अत्र शिरोरोगः शूलरूपा रुगभि- धीयते । वातपित्तकफैस्त्रिभिः । ननु वातपित्त- कफैरित्युक्ते तत्त्रित्वबोधात् । किमर्थं त्रिभि- रिति पदम् । वातपित्तकफानां पृथक्कार- णत्वबोधनार्थम् । तर्हि सर्व एव शिरोरोगाः सन्निपातसमुद्भवा इति कथम् । तदा वातादय उल्वणतया पृथक्कारणानि बोद्धव्यानि । क्षयेण रसादिक्षयेण ॥ * ॥
वातिकस्य लक्षणमाह । “यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम् बन्धोपतापैः प्रशमश्च यत्र शिरोऽभितापः स समीरणेन ॥” भवेदिति विशेषः । अनिमित्तं अतर्कितविप्र- कृष्टनिमित्तम् । निशि चातिमात्रं रात्री शैत्येन रोगाधिक्यात् । प्रतापः स्वेदनम् । शिरोऽभि- तापः शिरःपीडा ॥ * ॥
पैत्तिकमाह । “यस्योष्णमङ्गारचितं यथैव भवेच्छिरो दह्यति नाक्षिनाशम् । शीतेन रात्रौ च भवेच्छमश्च शिरोऽभितापः स तु पित्तकोपात् ॥ दह्यतीत्यार्षत्वात् ॥ * ॥
श्लैष्मिकमाह । “शिरो भवेद्यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमञ्च । सूनाक्षिनासावदनञ्च यस्य शिरोऽभितापः स कफप्रकोपात् ॥” कफोपदिग्धं अन्तःकफलिप्तम् । प्रतिष्टब्धं स्तब्ध- शिरम् ॥ * ॥
सान्निपातिकमाह । “शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति ॥” * ॥
रक्तजमाह । “रक्तात्मिकः पित्तसमानलिङ्ग- स्पर्शासहत्वं शिरसो भवेच्च ॥” पैत्तिकाद्भेदकलिङ्गमाह । शिरःस्पर्शासहत्व- मिति ॥ * ॥
क्षयजमाह । “वसावलासक्षतसम्भवानां शिरोगतानामतिसंक्षयेण । क्षयप्रवृत्तिः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम् ॥” क्षतसम्भवं रुधिरम् । कष्टः कृच्छ्रसाध्यः । “श्रमो भ्रमति तुद्येत शिरो विभ्रान्तनेत्रता । मूर्च्छा गात्रावसादश्च शिरोरोगे क्षयात्मिके ॥” कृमिजमाह । “निस्तुद्यते यस्य शिरोऽतिमात्रं संभक्ष्यमाणं स्फुरतीव चान्तः । घ्राणाच्च गच्छेद्रुधिरं सपूयं शिरोऽभितापः कृमिभिः सघोरः ॥” संभक्ष्यमाणं कृमिभिरिति शेषः । घ्नाणाच्चेति चकारेण कृमिनिर्गमोऽपि बोध्यते ॥ * ॥
सूर्य्या- वर्त्तमाह । “सूर्य्योदयं या प्रतिमन्दमन्द- मक्षिभ्रुवं रुक् समुपैति गाढम् । विवर्द्धते चांशुमता सहैव सूर्य्याववृत्तौ विनिवर्त्तते च ॥ शीतेन शान्तिं लभते च किञ्चि- दुष्णेन जन्तुः सुखमाप्नुयाद्वा । सर्व्वात्मकं कष्टतमं विकारं सूर्य्याववर्त्तं तमुदाहरन्ति ॥” सूर्य्योदयमिति लक्षीकृत्य आरभ्येति यावत् । सूर्य्यस्याववृत्ती सूर्य्यस्याधोगतौ ॥ * ॥
अनन्त- वातमाह । “दोषास्तु दुष्टाः स्वयमेव मन्यां संपीड्य घाटां स्वरुजां सुतीव्राम् । कुर्वन्ति सोऽक्ष्णि भ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु ॥ गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजान् विकारान् । अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम् ॥” एवशब्दोऽत्राप्यर्थः । अव्ययानामनेकार्थत्वात् । स्वरुजां स्वस्य रुजां व्यथादाहगौरवादिरूपां दोषाः कुर्वन्ति । अयमनन्तवातः । स अनन्त- वातः अक्ष्यादिषु स्थितिं करोति । विशेषतः गण्डपार्श्वे स्थितिं करोति । पीडया स्थितिं कृत्वा कम्पादींश्च करोति ॥ * ॥
शङ्खकमाह । “पित्तरक्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः ॥ तीव्ररुग्दाहरागं हि शोथं कुर्वन्ति दारुणम् ॥ स शिरोविषवद्वेगान् निरुध्याशु गलं तथा । त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः । त्र्यहाज्जीवति भैषज्यं प्रत्याख्येयस्य कारयेत् ॥” पित्तरक्तानिलाः अत्र कफोऽपि योज्यः । कृतानु- तापः कफपित्तरक्तैरिति सुश्रुतवचनात् । विमू- र्च्छिताः प्रवृद्धाः । स शोथः । त्रिरात्रात् त्रिरात्रमध्ये मारयति ॥ * ॥
अर्द्धावभेदकमाह । “रूक्षाशनाद्यध्यशनावश्याप्राग्वातमैथुनैः । वेगसंधारणायासव्यायामैः कुपितोऽनिलः ॥ केवलः सकफो वार्द्धं गृहीत्वा शिरसो बली । मन्याभ्रूशङ्खकर्णाक्षिललाटार्द्धेषु वेदनाम् ॥ शस्त्राशनिनिभां कुर्य्यात्तीव्रां सोऽर्द्धावभेदकः । नयनं वाथवा श्रोत्रमभिवृद्धौ विनाशयेत् ॥” अवश्या अवश्यायः । आयासः अतिबलेन भारोद्वहनादिभिः । व्यायामः स्वल्पश्रमः । शस्त्राशनिनिभां शस्त्रपातेनैव वज्रपातेनैव वेद- नाम् ॥ * ॥
अथ शिरोरोगाणां चिकित्स्या । “वातजाते शिरोरोगे स्नेहस्वेदं विवर्द्दनम् । पानाहारोपनाहांश्च कुर्य्याद्वातामयापहां ॥ कुष्ठमेरण्डमूले च नागरे तत्र पेषितम् । कटूष्णं शिरसः पीडां भाले लेपनतो हरेत् ॥ रसः श्वासकुठारोत्थस्तस्य नस्यं विशेषतः । शिरःशूलं हरत्येव विधेयो नात्र संशयः ॥” * ॥
अथ शिरोवस्तिविधिः । “आशिरोव्यापि तच्चर्म्म षोडषाङ्गुलमुच्छ्रितम् । तेनावेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत् ॥ निश्चलस्योपविष्टस्य तैलैः कोष्णैः प्रपूरयेत् । धारयेदारुजः शान्त्यै यामं यामार्द्धमेव च ॥ शिरोवस्तिर्हरत्येष शिरोरोगं मरुद्भवम् । हनुमन्याक्षिकर्णार्त्तिमर्द्दितं मूर्द्धकम्पनम् । विना भोजनमेवैष शिरोवस्त्याः प्रयुज्यते ॥ दिनानि पञ्च वा सप्त रुजि तत्परतोऽपि वा । ततोऽपनीतस्नेहस्तु मोचयेद्वस्तिबन्धनम् ॥ शिरोललाटवदनग्रीवादीनि विमर्द्दयेत् । सुखोष्णेनाम्भसा गात्रं प्रक्षाल्याश्नाति यद्धितम ॥ आमिषं जाङ्गलं पथ्यं तत्र शाल्यादयोऽपि च । मुद्गान् माषान् कुलत्थांश्च खादेद्वा निशि केवलान् ॥ कटुकोष्णान्ससर्पिष्कानुष्णं क्षीरं पिबेत्तथा । पित्तात्मके शिरोरोगे शीतानां चन्दनाम्भसाम् ॥ कुमुदोत्पलपद्मानां स्पर्शाः सेव्याश्च मारुताः । सर्पिषः शतधौतस्य शिरसा धारणं हितम् ॥ रसः श्वासकुठारोत्थः कर्पूरं कुङ्कुमं नवम् । शीतं छागीपयः सर्वं वदनेनानुवर्षयेत् ॥ तस्य नस्यं भिषग्दद्यात् पित्तलायां शिरोरुजि । किन्तु मस्तकशूलेषु सर्वेष्वेवं हितं मतम् ॥ गुडनागरकल्कस्य नस्यं मस्तकशूलनुत् ॥ * ॥
रक्तजे पित्तवत् सर्वं भोजनालेपसेवनम् ॥ शीतोष्णयोश्च विन्यासो विशेषो रक्तमोक्षणम् । कफजे लङ्घनं स्वेदो रूक्षोष्णैः पावकात्मकैः ॥ * ॥
सन्निपातभवे कार्य्या सन्निपातहरी क्रिया । पुराणसर्पिसः पानं विशेषेण दिशन्ति हि ॥ एरण्डमूलं तगरं शताह्वा जीवन्तिका सैन्धवरास्निके च । भृङ्गं विडङ्गं मधुयष्टिका च विश्वौषधं कृष्णतिलस्य तैलम् ॥ अजापयस्तैलविमिश्रितञ्च चतुर्गुणं भृङ्गरसे विपक्वम् । षड्बिन्दवो नासिकयोः प्रदेयाः सर्व्वाणि हन्युः शिरसो विकारान् ॥ च्युतांश्च केशान् पलितांश्च दन्तान् निर्बध्य मूलान् प्रकटीकरोति । सुपर्णगृध्रप्रतिमञ्च चक्षुः कुर्वन्ति बाह्वोरधिकं बलञ्च ॥” जीवन्तिका अत्र हरीतकी शाकविशेषश्च । इति षड्बिन्दुतैलम् ॥ * ॥
“क्षयजे क्षयनाशाय कर्त्तव्यो बृंहणो विधिः । पाने नस्ये च सर्पिः स्याद्वातघ्नैर्मधुरैः शृतम् ॥ * ॥
कृमिजे व्योषणञ्चाहुः शिग्रुबीजैश्च लावणम् । अजामूत्रयुतं नस्यं कर्त्तव्यं कृमिनुत् परम् ॥ सूर्य्यावर्त्ते विधातव्यं नस्यकर्म्मादिभेषजम् । योजयेत् सगुडं सर्पिर्घृतपूपांश्च भक्षयेत् ॥ लावनं क्षीरसर्पिर्भ्यां पानञ्च क्षीरसर्पिषोः । क्षीरपिष्टस्तिलैः स्वेदी जीवनीयैश्च शस्यते ॥ भृङ्गराजरसच्छागक्षीरतुल्यार्कतापितः । सूर्य्यावर्त्तं निहन्त्याशु नस्येनैव प्रयोगराट् ॥ * ॥
अर्द्धावभेदके पूर्व्वं स्नेहस्वेदो हि भेषजम् ॥ विरेकः कायशुद्धिश्च धूपस्निग्धोष्णभोजणम् । विडङ्गानि तिलान् कृष्णान् समान् पिष्ट्वा विलेपयेत् ॥ नस्यं वाप्याचरेत्तस्मादर्द्धभेदं व्यपोहति । पिबेत् सशकरं क्षीरं नीरं वा नारिकेलजम् ॥ सुशीतं वापि पानीयं सर्पिर्व्वा नस्ततस्तयोः ॥” नस्ततः नासिकया पिबेदित्यन्वयः । तयोः सूर्य्यावर्त्तार्द्धभेदयोः ॥ * ॥
“अनन्तवाते कर्त्तव्यः सूर्य्यावर्त्तहितो विधिः । शिराव्यधश्च कर्त्तव्योऽनन्तवातप्रशान्तये ॥ आहारश्च प्रदातव्यो वातपित्तविनाशनः । मधुमस्तकसंयावघृतपूपैर्विशेषतः ॥” संयावः पक्वान्नविशेषः । एरकिया इति लोके । स च मधुमस्तकः मघुनोपलिप्तः । घृतपूरो- ऽपूपः । “पथ्याक्षधात्री रजनी गुडूची भूनिम्बनिम्बैः सगुडः कषायः । भ्रूशङ्खकर्णाक्षिशिरोऽर्द्धशूलं निहन्ति नासानिहितः क्षणेन ॥” इति पथ्यादिक्वाथः ॥ * ॥
“दार्व्वी हरिद्रा मञ्जिष्ठा सनिम्बोशीरपद्मकम् । एतत्प्रलेपनं कुर्य्याच्छङ्खकस्य विनाशयेत् ॥ पीततोयाभिषेकञ्च शीतलक्षीरसेवनम् । कल्कैश्च क्षीरवृक्षाणां शङ्खके लेपनं हितम् ॥” सर्वषु । “यष्टीमधुकमाषः स्यात् तूर्य्यांशन्तु विषम्भवेत् । तयोश्चूर्णन्तु सूक्ष्मं स्यात्तच्चूर्णं सर्षपोन्मितम् ॥ नासिकाभ्यन्तरे न्यस्तं सर्व्वां शीर्षव्यथां हरेत् । दृष्टप्रयोगो योगोऽयमनुभाविभिरादृतः ॥ आर्द्रं यच्छक्तिकाचूर्णं चूर्णितं नवसादरम् । उभयं योजितं गन्धात्तस्य नश्यति शीर्षरुक ॥” इति भावप्रकाशे शिरोरोगाधिकारः ॥