शब्दकल्पद्रुमः
शिरोऽर्त्तिः || स्त्री (शिरसोऽर्त्तिः ।) शिरःपीडा । इति लोके प्रसिद्धिः ॥ (यथा, कथासरित्सागरे । १३ । १५२ । “जागरेणातिपानेन शिरोऽर्त्तिं व्यपदिश्य च । प्रातः स तस्थौ वस्त्रेण वेष्टयित्वाङ्कितं शिरः ॥”)