वाचस्पत्यम्
शिरोवेष्ट || पु० वेष्ट—घञ् शिरसो वेष्टः । (पाकडी) उष्णीषे त्रिका० ल्युट् । तत्रैव न० ।
शब्दकल्पद्रुमः
शिरोवेष्टः || पुं, (शिरो वेष्टयतीति । वेष्ट + अच्) उष्णीषः । इति त्रिकाण्डशेषः ॥