वाचस्पत्यम्
शिल || उञ्छे कणश आदाने तुदा० पर० सक० सेट् । शि- लति अशेलीत् ।
वाचस्पत्यम्
शिल || न० शिल—क । गृहीतशस्यात् क्षेत्रात्कणशोमञ्जर्य्या दानरूपायां १ वृत्तौ उञ्छशब्दे १०७० पु० दृश्यम् । २ पाषाणे ३ द्वाराधःस्थितकाष्ठखण्डे च (गोवराट) स्त्री अमरः । ४ स्तम्भशीर्षे ५ मनःशिलायां स्त्री मेदि० ६ कर्पूरे राजनि० ।
शब्दकल्पद्रुमः
शिलः || पुं, क्ली, (शिल + कः ।)
उञ्छः । इति मेदिनी ॥ (यथा, भागवते । ११ । १७ । ४१ । “अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयोः ॥”)
जीवनोपायविशेषः । यथा, —
“ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतन्तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥” इति मानवे ४ अध्यायः ॥ “अवाधितस्थानेषु पथि वा क्षेत्रेषु वा अप्रति- हतावकाशेषु यत्र यत्रौषधयो विद्यन्ते तत्र तत्राङ्गुलीभ्यां एकैकं कणं समुच्चयित्वा इति बौधायनदर्शनात् । एकैकधान्यादिगुडकोच्चय- मुञ्छः । मञ्जर्य्यात्मकानेकधान्याच्चयनं शिलः । उञ्छश्च शिलश्च इत्येकवद्भावः । तत् सत्यसमान- फलत्वादृतमित्युच्यते ।” इति तट्टीकायां कुल्लूक- भट्टः ॥ (रघुवंशीयपारियात्रनृपपुत्त्रः । यथा, रघुवंशे । १८ । १७ । “तस्याभवत् सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः ॥”)
शब्दकल्पद्रुमः
शिल || श उञ्छे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।)
उञ्छ उद्धृतशस्यशेषाहर- णम् । श, शिलति धान्यं दीनः । शेलिता । इति दुर्गादासः ॥