शिलाकर्णी
शिलाज
शिलाकुट्टक
वाचस्पत्यम्
शिलाकुट्टक || पु० शिलां कुट्टयति कुट्ट—ण्वुल् । १ पाषाण- भेदके अस्त्रभेदे शब्दच० । शिलया कुट्टति वितुषीकरोति । २ अश्मकुट्टके वानप्रस्थभेदे ।
शब्दकल्पद्रुमः
शिलाकुट्टकः || पुं, (शिलां कुट्टयति दारयतीति । कुट्ट + ण्युल् ।)
टङ्कः । इति शब्दरत्नावली ॥