संस्कृत-शब्दकोशः

शिलाज शिलाञ्जनी

शिलाजतु

वाचस्पत्यम्

शिलाजतु ||‍ न० शिलाजातं जतु । १ पर्वतजाते उपधातुभेदे अमरः । तदुत्पत्त्यादिकं भावप्र० उक्तं यथा “निदाधे धर्मसन्तप्ता धातुसारन्धराधराः । निर्यास- वत् प्रमुञ्चन्ति तच्छिलाजतु कीर्त्तितम् । सौवर्णं राज- तन्ताम्रमायसन्तच्चतुर्विधम् । शिलाजत्वद्रिजतु च शैल निर्य्यास इत्यपि । गैरेयमश्मजञ्चापि गिरिज शैलधातु- जम् । शिलाजं कटु तिक्तोष्णं कटुपाकं रसायनम् । छेदि योगवहं हन्ति कफमेदाश्मशकराः । मूत्रकृच्छ्र क्षयं श्वासं वाताशांसि च पाण्डुताम् । अपस्मारन्तथो- न्माद शोथकुष्ठोदरक्रमीन् । सौवर्णन्तु जवापुष्पवर्णं भवति तद्रसात् । मधुर टुतिक्तञ्च शीतलं कटुपाकि च । राजत पाण्डुरं शीतं कटुक स्वादुपाकि च । ताम्रं मयूरकण्ठाभं तीक्ष्णमुष्णञ्च जायते । लौहं जटायुपक्षाभं तत्तिक्तं लबणं मबेत् । विपाके कटुकं शीतं सर्वश्रेष्ठ- मुदाहृतम्” ।


शब्दकल्पद्रुमः

शिलाजतु || क्ली (शिलाया जतु ।)
पर्वतजातो- पधातुविशेषः । शिलाजित् इति हिन्दीभाषा । तत्पर्य्यायः । गैरेयम् २ अर्घ्यम् ३ गिरिजम् ४ अश्मजम् ५ । इत्यमरः ॥ शिलाजम् ६ अगजम् ७ शैलम् ८ अद्रिजम् ९ । इति रत्नमामाला ॥ शैलेयम् १० शीतपुष्पकम् ११ । इति शब्द- चन्द्रिका ॥ शिलाव्याधिः १२ । इति त्रिकाण्ड- शेषः ॥ अश्मोत्थम् १३ अश्मलाक्षा १४ अश्म- जतुकम् १५ जत्वश्मकम् १६ । अस्य गुणाः । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् । रसायनत्वम् । मेहोन्मादाश्मरीशोफकुष्ठापस्मरनाशित्वं च । इति राजनिर्घण्टः ॥ अपि च । शर्करासर्व- रोगहरत्वम् । योगवाहित्वम् । अत्युष्णशीत- कत्वञ्च । इति राजवल्लभः ॥ अस्योत्पत्तिनाम- लक्षणगुणाः । “निदाघे घर्म्मसन्तप्ता धातुसार धराधराः । निर्यासवत् प्रमुञ्चन्ति तच्छिलाजतु कीर्त्तितम् ॥ सौवर्णं राजतं ताम्रं आयसं तच्चतुर्बिधम् । शिलाजत्वद्रिजतु च शैलनिर्यास इत्यपि ॥ गैरेयमश्मजञ्चापि गिरिजं शैलधातुजम् । शिलाह्वं कटुतिक्तोष्णं कटुपाकं रसायनम् ॥ छेदि योगवहं हन्ति कफमेदाश्मशर्कराः । मूत्रकृच्छ्रं क्षयं श्वासं वातास्रार्शांसि पाण्डुताम् ॥ अपस्मारं तथोन्मादं शोथकूष्ठोदरक्रिमीन् । सौवर्णन्तु जवापुष्पवर्णं भवति तद्रसात् ॥ मधुरं कटुतिक्तन्तु शीतलं कटुपाकि च । राजतं पाण्डुरं शीतं कटुकं स्वादुपाकि च ॥ ताम्रम् मयूरकण्ठाभं तत्तिक्तं लवणं भवेत् । विपाके कटुकं शीतं सर्वश्रेष्ठमुदाहृतम् ॥” इति भावप्रकाशः ॥



Correction: