वाचस्पत्यम्
शिलासन || न० शिला आसनं यस्य । शैलेये गन्धद्रव्ये शब्दर० २ शिलानिर्मिते आसने च ।
शब्दकल्पद्रुमः
शिलासनं || क्ली (शिला आसनं यस्य ।) शैलेयम् । इति शब्दरत्नावली ॥ प्रस्तरनिर्म्मितासनञ्च ॥