वाचस्पत्यम्
शिलिन्द || पुंस्त्री० शिलिं ददाति दा—क पृषो० । स्वनामख्याते मतस्यविशेषे “शिलिन्दः श्लेष्मको बल्यो विपाके मधुरो गुरुः । आमवातकरो ह्रद्यो वातपित्तहरो मतः” राजवल्लभः । स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
शिलिन्दः || पुं, मत्स्यविशेषः । यथा, —
“शिलिन्दः श्लेष्मलो बल्यो विपाके मधुरो गुरुः । आमवातकरो हृद्यो वातपित्तहरो मतः ॥” इति राजवल्लभः ॥