संस्कृत-शब्दकोशः

शिलोच्चय शिलोत्थ

शिलोञ्छ

वाचस्पत्यम्

शिलोञ्छ ||‍ पु० शिलेनोञ्छ उछि—घञ् । उपात्तशस्यात् क्षेत्रात् शेषावचयने ।


शब्दकल्पद्रुमः

शिलोञ्छः || पुं, उञ्छशिलम् । उपात्तशस्यात् क्षेत्रात् शेषावचयनम् । उञ्छेन परिचञ्च्वादान- वद्ग्रहणेन शिष्यते सञ्चीयते उञ्छशिलम । उछि शुञ्छे शिल शुञ्छे कृद्धोरित्युक्ते कृ ग ज्ञेति इजुङत्वात् कः उञ्छशिलं संघातविगृहीतं विपर्य्यस्तम् । “शक्यं न चेदुञ्छशिलेन वृत्तिः फलेन मूलेन च वारिणा च ।” इति समाहारद्वन्द्वे । उञ्छं शिलञ्च । “उञ्छभैक्षञ्च यच्चान्यत् तत् परिग्रहणं त्वृतम् ।” इति निगमाभिधाने क्लीवं पुमानुञ्छ ऋतं शिलं इति वोपालिते पुंस्युञ्छः । “रघुकाराहृतसारे परिणतवाक् कल्मकेदारे । भवभूतिकृतशिलोञ्छे तत्तलपतितं वयं चिनुमः ॥” इति गोवर्द्धनः । केचिदुञ्छशिलयोर्भेदमाहुः । प्रतिग्रहात् शिलं श्रेयस्ततोऽप्युञ्छः प्रशस्यते इति । तत्र शाल्यादेर्निपातितपरित्यक्तमञ्ज- रीणां आदानं शिलम् । शिलं धान्यमञ्जरी- संग्रह इति स्वामी च । एकैकशः कपोत- बद्धान्यकणोद्ग्रहणमुञ्छः । तदुक्तं उञ्छो धान्य- कणोच्चय इति । शिलं तालव्यादि दन्त्यादि च । इत्यमरटीकायां भरतः ॥ यथा, मनौ ७ । ३३ । “एवं वृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । विस्तीर्य्यते यशो लोके तैलबिन्दुरिभाम्भसि ॥”)



Correction: