वाचस्पत्यम्
शिल्पकारिन् || त्रि० शिल्पं चित्रादिकलां करोति कृ—णिनि । चित्रादिकर्त्तरि ।
शब्दकल्पद्रुमः
शिल्पकारी || [न्] त्रि, (शिल्पं कर्त्तुं शीलमस्य । णिनिः ।)
शिल्पकर्म्मकर्त्ता । तस्योत्पत्त्यादि यथा, —
“विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः । ततो बभूवुः पुत्त्राश्च नवैते शिल्पकारिणः ॥ मालाकारः कर्म्मकारः शङ्खकारः कुविन्दकः । कुम्भकारः कंसकारः षडेते शिल्पिनां वराः ॥ सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च । पतितास्ते ब्रह्मशापादजात्या वर्णसङ्कराः ॥ स्वर्णकारः स्वर्णचौर्य्यात् ब्राह्मणानां द्विजोत्तम । बभूव सद्यः पतितो ब्रह्मशापेन कर्म्मणा ॥ सूत्रधारो द्विजातीनां शापेन पतितो भुवि । शीघ्रञ्च यज्ञकाष्ठञ्च न ददौ तेन हेतुना ॥ व्यतिक्रमेण चित्राणां सद्यश्चित्रकरस्तथा । पतितो ब्रह्मशापेन ब्राह्मणानाञ्च कोपतः ॥ कश्चिद्वणिग्विशेषश्च संसर्गात् स्वर्णकारिणः । स्वर्णचीर्य्यादिदोषेण पतितो ब्रह्मशापतः ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥