वाचस्पत्यम्
शिवचतुर्दशी || स्त्री शिवप्रिया चतुर्दशी । फाल्गुनकृष्णचतु- दस्याम् । व्रतशब्दे शिवचतुर्दशीव्रतं दृश्यम् ।
शब्दकल्पद्रुमः
शिवचतुर्दशी || स्त्री (शिवप्रिया चतुर्द्दशी ।)
चतुर्दशीकर्त्तव्यशिवव्रतविशेषः । यथा, — नन्दिकेश्वर उवाच । “शृणुष्वावहितो ब्रह्मन् वक्ष्ये माहेश्वरं व्रतम् त्रिषु लोकेषु विख्याता नाम्ना शिवचतुर्द्दशी ॥ मार्गशीर्षे त्रयोदश्यां सितायामेकभक्तकम् । प्राथयेद्देवदेवेशं त्वामहं शरणं गतः ॥ चतुर्द्दश्यां निराहारः समभ्यर्च्च्य च शङ्करम् । सुवर्णवृषभं दत्त्वा भोक्ष्यामीति परेऽहनि ॥ एवं नियमकृत् सुप्त्वा प्रातरुत्थाय मानवः । कृतस्नानजपः पश्चादुमया सह शङ्करम् ॥ पूजयेत् कमलैः शुक्लैर्गन्धधूपानुलेपनैः । पादौ नमः शिवायेति शिरः सर्व्वात्मने नमः ॥ ललाटं वामदेवाय नेत्राणि हरये नमः । मुखमिन्दुमुखायेति श्रीकण्ठायेति कन्धरम् ॥ सद्योजाताय कर्णौ तु वामदेवाय वै भुजौ । अघोरहृदयायेति हृदयञ्चापि पूजयेत् ॥ स्तनौ तत्पुरुषायेति तथेशायेति चोदरम् । पार्श्वे चानन्तधर्म्माय ज्ञानभूताय वै कटिम् ॥ ऊरू चानन्तवैराजसिंहायेति च पूजयेत् । अनन्तैश्वर्य्यनाथाय जानुनी चार्च्चयेद्बुधः ॥ प्रधानाय नमो जङ्घेगुल्फौ व्योमात्मने नमः । व्योमकेशात्मरूपाय पृष्ठमभ्यर्च्चयेन्नरः ॥ नमः पुष्ट्यै नमस्तुष्टै पार्व्वतीञ्चापि पूजयेत् । ततस्तु वृषभं हैममुदकुम्भसमन्वितम् ॥ शुक्लमाल्याम्बरयुतं पञ्चरत्नपरिष्कृतम् । भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मनाय निवेदयेत् ॥ प्रीयतां देवदेवोऽत्र सद्योजातः पिनाकधृक् । ततस्तु विप्रानन्नेन तर्पयेच्छक्तितः शुभान् ॥ पृषदाज्यञ्च संप्राश्य स्वपेद्भूमावुदड्मुखः । पञ्चदश्यां ततः पूज्य विप्रान् भूञ्जीत वाग्यतः ॥ तद्वत् कृष्णचतुर्द्दश्यामेतत् सर्व्वं समाचरेत् । चतुर्द्दशीषु सर्व्वासु कुर्य्यात् पूर्व्ववदर्च्चनम् ॥ ये तु मासविशेषाः स्युस्तान्निबोध क्रमादिह । मार्गशीर्षादिमासेषु स्तवमेतदुदीरयेत् ॥ शङ्कराय नमम्तुभ्यं नमस्ते करवीरकम् । त्र्यम्बकाय नमस्तेऽस्तु महेश्वर नमः परम् ॥ नमस्तेऽस्तु महादेव स्थाणवे च ततः परम् । नमः पशुपते नाथ नमस्ते शम्भवे पुनः ॥ नमस्ते परमानन्द नमः सोमार्द्धधारिणे । नमो भीमाय इत्येवं त्वामहं शरणं गतः ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । पञ्चगव्यं तथा विल्वं यवान् गोशृङ्गवारि च ॥ तिलांश्च कृष्णान् विधिवत् प्राशनं क्रमशः स्मृतम् । प्रतिमासं चतुर्द्दश्योरेकैकं प्राशनं स्मृतम् ॥ मन्दारैर्म्मालतीभिश्च तथा धुस्तूरकैरपि । सिन्धूवारैरशोकैश्च मल्लिकाभिश्च पाटलैः ॥ अर्कपुष्पकदम्बैश्च शतपत्रैस्तथोत्पलैः । एकैकेन चतुर्द्दश्यामर्च्चयेत् पार्व्वतीपतिम् ॥ पुनश्च कार्त्तिके मासि संप्राप्ते तर्पयेत् द्विजान् । अन्नैर्नानाविधैर्भक्षैर्वस्त्रमाल्यविभूषणैः ॥ कृत्वा नीलवृषोत्सर्गं श्रुत्युक्तविधिना नरः । उमामहेश्वरं हैमं वृषभञ्च गवा सह ॥ मुक्ताफलाष्टकयुतं सितनेत्रत्रयावृतम् । सर्व्वोपस्करयुक्तायां शय्यायामुदकुम्भयोः ॥ ताम्रपात्रोपरि पुनः शालितण्डुलसंयुतम् । स्थाप्य विप्राय शान्ताय वेदव्रतपराय च ॥ ज्येष्ठसामविदे देयं न वकव्रतिने क्वचित् । गुणज्ञे श्रोत्रिये दद्यादाचार्ये तत्त्ववेदिनि ॥ अव्यङ्गाङ्गाय सौम्याय सदाकल्याणकारिणि । सपत्नीकाय संपूज्य माल्यवस्त्रविभूषणैः ॥ गुरौ सति गुरोर्देयं तदभावे द्विजातये । न वित्तशाठ्यं कुर्व्वीत कुर्व्वन् मोहात् पतत्यधः अनेन विधिना यस्तु कुर्य्यात् शिवचतुर्द्दशीम् । सोऽश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥ ब्रह्महत्यादिकं किञ्चिद्यदत्रामुत्र वा कृतम् । पितृभिर्भ्रातृभिश्चैव तत् सर्व्वं नाशमाप्नुयात् ॥ दीर्घायुरारोग्यकुलाभिवृद्धि- रत्राक्षयामुत्र चतुर्भुजत्वम् । गणाधिपत्यं दिवि कल्पकोटि- शतं वसित्वा पदमेति शम्भोः ॥ न बृहस्पतिरप्यनन्तमस्याः पहल्मिन्द्रो न पितामहोऽपि वक्तुम् । न च सिद्धगणोऽप्यलं न चाहं यदि जिह्वायुतकोटयोऽपि वक्त्रे ॥ भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा शृणोति च विमत्सरः सकलपापविध्वंसिनीम् । इमां शिवचतुर्द्दशीममरकामिनीकोटयः स्तुवन्ति तमनिन्दितं किमु समाचरेद्यः सदा ॥ या वाथ नारी कुरुते ह भक्त्या भर्त्तारमापृच्छ सुतं गुरुं वा । सापि प्रसादात् परमेश्वरस्य परं पदं याति पिणाकपाणैः ॥” इति मात्स्ये शिवचतुर्द्दशीव्रतं ८० अध्यायः ॥ * ॥
फाल्गुनी कृष्णा चतुर्द्दशी । तत्र शिवव्रतं कर्त्त- व्यम् । तस्य विवरणं शिवरात्रिशब्दे द्रष्टव्यम् ॥ माघ फाल्गुन-चैत्र-वैशाख-श्रावण-भाद्रेषु दिवादण्डा यथा ।