संस्कृत-शब्दकोशः

शिवज्ञा शिवताति

शिवज्ञान

वाचस्पत्यम्

शिवज्ञान ||‍ न० मासनेदे तण्डभेदेन माहेन्द्रादियोगज्ञापके शास्त्रभेदे “माहेन्द्रे विजयो नित्यममृते कार्य्यशोम- नम् । वक्रे कार्यविलम्बः स्यात् शून्ये च मरणं भवेत् । वैशाखादिश्रावणान्तमेकभावेन संवदेत् । अमृतादि दिवा- रात्रौ चतुर्मासं यथाक्रमम् । याममानं दिवामाने ज्ञेयं सर्वत्र मासके । तत्प्रामाणेन ज्ञातव्यं दण्डमान विचक्षणैः । रात्रिमानप्रमाणेन ज्ञेयं दण्डप्रमाणकम् । न वारतिथिनक्षत्र न योगः करणं तथा । शिवज्ञानं समासाद्य सर्वं मुनिविचारणम् । भाद्रादिमार्गपर्य्यन्त सप्तवारे समादिशेत् । शून्यवक्रादियोगं हि पौषादि- चैत्रतस्तथा” ज्योति० ।


शब्दकल्पद्रुमः

शिवज्ञानं || क्ली (शिवस्य ज्ञानमस्मात् ।)
शुभा- शुभकालबोधकशास्त्रम् । यदा यात्रादिक्रिया अवश्यकर्त्तव्या ज्योतिः शास्त्रोक्तशुभक्षणप्राप्तिश्च न भवति तदा शिवज्ञानोक्तशुभसमये कर्म्म कर्त्तुमुचितं भवति । एतच्छिवज्ञानोक्तमाहेन्द्र- योगे कृतयात्रादिर्जयं अमृतयोगे कार्य्यसिद्धिं वक्रे कार्य्यनाशं शून्ये मृत्युं अपमानं वा प्राप्नोति । दिवारात्रौ माघ-फाल्गुन-चैत्र- वैशाखश्रावणभाद्रेषु एते योगा एकरुपाः आश्विनकार्त्तिकाग्रहायणपौषेषु एकप्रकाराः ज्यैष्ठाषाढयोश्च एकरूपा भवन्ति ॥ यथा, — माघ फाल्गुन-चैत्र-वैशाख-श्रावण-भाद्रेषु दिवादण्डा यथा । रविवारे मा २ अ ८ शू ८ मा २ व १० । सोमवारे अ ४ व ८ अ ६ व ६ मा ४ शू २ । मङ्गलवारे व ४ शू २ अ ६ व ४ शू २ अ ४ शू २ अ ४ शू २ । बुधवारे अ ४ व ६ अ ४ शू २ व ४ मा ४ अ ४ शू २ । गुरुवारे मा ४ शू २ व ६ मा ६ शू ४ व ४ शू ४ । शुक्रवारे अ २ व २ अ ६ व ६ अ ६ शू ४ अ ४ । शनिवारे शू ४ व ४ शू २ अ ८ शू ४ व ४ शू ४ । तेषु रात्रिदण्डा यथा । रविवारे शू २ मा २ अ ४ व ८ मा ८ शू ६ सोमवारे व २ अ ६ व ६ अ ८ शू ८ । मङ्गलवारे अ २ व ४ शू २ अ ६ व ६ अ ४ व ४ शू २ । बुधवारे शू २ अ ६ मा ४ व ४ शू ४ अ १० । गुरुवारे व १४ शू ४ व ४ अ २ शू ६ । शुक्रवारे व ४ अ ४ शू ४ मा २ व ६ शू ४ अ २ मा २ शू २ । शनिवारे शू २ व ४ अ ६ व ४ अ ४ व २ अ ४ शू ४ । आश्विन-कार्त्तिकाग्रहायणपौषेषु दिवादण्डा यथा । रविवारे शू २ अ ६ व ८ अ ८ शू २ मा २ शू २ । सोमवारे अ ४ शू ४ अ ६ व १६ । मङ्गलवारे अ २ व २ अ १० व ६ शू ६ व ४ । बुधवारे अ २ मा २ अ २ व ६ अ ६ शू २ मा ६ व ४ । गुरुवारे अ ४ व ४ शू ४ व ६ शू २ अ ४ व ६ । शुक्रवारे अ २ व २ अ ६ व ६ अ ८ शू २ अ ४ । शनिवारे अ २ व २ अ ६ व ६ अ ८ शू २ अ ४ । तेषु रात्रिदण्डा यथा । रविवारे शू २ व ४ अ ४ व ६ अ ४ शू २ अ ८ । सोमवारे व ६ अ ८ व ८ अ २ व ६ । मङ्गलवारे मा ६ अ २ शू २ अ ६ व ४ मा ४ शू २ अ ४ । बुधवारे व २ अ २ व ४ अ १६ व २ शू ४ । गुरुवारे शू २ अ ८ व ६ अ ८ शू २ अ ४ । शुक्रवारे व २ अ ८ व ६ अ ८ शू २ अ ४ । शनिवारे व १४ शू ४ व ४ अ २ शू ६ । ज्यैष्ठाषाढयोर्दिवादण्डा यथा । रविवारे शू ४ अ ६ व ६ अ ६ व ४ मा २ शू २ । सोमवारे व ८ अ ४ शू ६ व ८ शू ४ । मङ्गलवारे अ ६ शू ४ अ ६ व ६ मा २ अ २ मा २ शू २ । बुधवारे शू २ व ४ अ ८ व ६ अ ८ शू २ । गुरुवारे मा २ शू २ व ६ मा ४ शू ४ व ६ अ ६ । शुक्रवारे शू २ मा २ व ६ मा २ शू ४ अ ६ व ४ शू ४ । शनिवारे मा २ शू २ व ६ मा ६ शू ४ व ४ अ ६ । तत्र रात्रिदण्डा यथा । रविवारे अ ४ शू ४ व ४ अ ६ व ८ शू ४ । सोमवारे व ८ अ ८ शू ४ अ ४ शू २ मा २ शू २ । मङ्गलवारे अ २ व ४ मा ४ शू ४ व २ अ ६ शू २ व ६ । बुधवारे अ १० शू २ व ४ अ ४ शू १० । गुरुवारे शू २ अ ६ शू २ व ४ शू २ अ ६ शू ४ अ ४ । शुक्रवारे अ ६ शू २ व ४ शू ६ अ ६ शू २ अ ४ । शनिवारे शू २ अ २ व ८ शू २ अ ६ शू ४ अ ६ । मतान्तरे अस्य प्रमाणं यथा, —
“माहेन्द्रे विजयो नित्यं अमृते कार्य्यशोभनम् । वक्रे कार्य्यविलम्बः स्याच्छून्ये च मरणं ध्रुवम् ॥ वैशाखादिश्रावणान्तं एकभावेन संवहेत् । अमृतादि दिवारात्रौ चतुर्मासं यथाक्रमम् ॥ याममानं दिवामाने ज्ञेयं सर्व्वत्र मासके । तत्प्रमाणेन ज्ञातव्यं दण्डमानं विचक्षणैः । रात्रिमानप्रमाणेन ज्ञेयो दण्डप्रमाणकः ॥ न वारतिथिनक्षत्रं न योगकरणं तथा । शिवज्ञानं समासाद्य सर्व्वं मुनिर्विचारयेत् ॥” तथा । “भाद्रादिमार्गपर्य्यन्तं सप्तवारे समादिशेत् । शून्यवक्रादियोगं हि पीषादिचैत्रतस्तथा ॥” इति ज्योतिषे शिवज्ञानम् ॥ * ॥
अनेकप्रकारं शिवज्ञानं शिवाज्ञा शिवालिखितं अमृतघटी च दृष्टं किन्तु परस्परमनैक्यं जातम् ॥



Correction: