वाचस्पत्यम्
शिवनाभि || पु० शिवस्य नाभिरिव । शिवलिङ्गभेदे “शिवनाभि मयं लिङ्गं प्रतिपूज्यं महर्षिभिः । श्रेष्ठञ्च सर्वलिङ्गे भ्यस्तस्मात् पूज्यं विधानतः” वीरमि० । अच समा० । शिवनाभः शालग्रामशिलाभेदे शालग्रामशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
शिवनाभिः || पुं, (शिवस्य नाभिरिव ।)
शिवलिङ्ग- विशेषः । यथा, —
“उत्तमं मध्यमधमं त्रिविधं लिङ्गमीरितम् । चतुरङ्गुलमुत्सेधे रम्यवेदिकमुत्तकम् ॥ उत्तमं लिङ्गमाख्यातं मुनिभिः शास्त्रकोविदैः । तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमधमं स्मृतम् ॥ शिवनाभिमयं लिङ्गं प्रतिपूज्य महर्षिभिः । श्रेष्ठञ्च सर्व्वलिङ्गेभ्यस्तस्मात् पूज्यं विधानतः ॥” इति वीरमित्रोदयः ॥