शब्दकल्पद्रुमः
शिवरसः || पुं, त्र्यहात् पर्य्युषितरसः । तत्पर्य्यायः । अन्नोदकजः २ । अस्य गुणाः । दीपनत्वम् । मधुरत्वम् । अम्लत्वम् । असृग्दाहदत्वम् । लघु- तर्पणत्वञ्च । इति राजनिर्घण्टः ॥