शिवलिङ्ग
शिववल्लभ
शिवलोक
वाचस्पत्यम्
शिवलोक || पु० ६ त० । कैलासनामके स्थाने ।
शब्दकल्पद्रुमः
शिवलोकः || पुं, (शिवस्य लोकः ।)
कैलासः । यथा, “विल्वपत्रैरखण्डैश्च यो लिङ्गं पूजयेत् सकृत् । सर्व्वपापैर्व्विनिर्मुक्तः शिवलोके महीयते ॥” इति तिथ्यादितत्त्वधृतभविष्यपुराणम् ॥ शिवस्य भुवनं जनश्च ॥