शब्दकल्पद्रुमः
शिवसायुज्यं || क्ली (शिवस्य सायुज्यम् ।)
मोक्ष- विशेषः । स च शिवेन सह योगः । यथा । नागरखण्डे । “उपवासप्रभावेण बलादपि च जागरात् । शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया । अक्षयान् लभते लोकान् शिवसायुज्यमाप्नु- यात् ॥” इति तिथ्यादितत्त्वम् ॥