संस्कृत-शब्दकोशः

शिवसुन्दरी शिवाक्ष

शिवा

वाचस्पत्यम्

शिवा ||‍ स्त्री शी—वन् नि० । १ मङ्गलवत्यां स्त्रियां २ दुर्गायां “शिवा मुक्तिः समाख्याता योगिनां मोक्षदायिनी । शिवायै यां यजेद्देवीं शिवा लोके ततः स्मृता” देवीपु० ४५ अ० । ३ मुक्तौ ४ शृगाले ५ हरीतक्यां ६ शमीवृक्षे ७ ता- मलक्याम् अमरः । ८ आमलक्यां मेदि० । ९ हरिद्रायां १० दूर्वायां ११ गोरचनायाञ्च राजनि० १२ शृगाल्याम् अमरः ।


शब्दकल्पद्रुमः

शिवा || स्त्री (शिव + टाप् ।)
दुर्गा । मुक्तिः । यथा, —
“शिवा मुक्तिः समाख्याता योगिनां मोक्ष- गामिनी । शिवाय यां जपेद्देवीं शिवा लोके ततः स्मृता ॥” इति देवीपुराणे ४५ अध्यायः ॥ अपि च । “शिवा कल्पाणरूपा च शिवदा च शिवप्रिया । प्रिये दातरि चाशब्दः शिवा तेन प्रकीर्त्तिता ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥ अपरञ्च । “शश्च कल्याणवचन इरेवोत्कृष्टवाचकः । समूहवाचकश्चैव वाकारो दातृवाचकः ॥ श्रेयःसंघोत्कृष्टदात्री शिवा तेन प्रकीर्त्तिता । शिवराशिर्मूर्त्तिमती शिवा तेन प्रकीर्त्तिता ॥ शिवो हि मोक्षवचनश्चाकारो दातृवाचकः । स्वयं निर्व्वाणदात्री या सा शिवा परिकीत्तिता” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २७ अघ्यायः ॥ शमीवृक्षः । हरीतकी । शृगालः । ताम- लकी । इत्यमरः ॥ आमलकी । इति मेदिनी ॥ बुद्धशक्तिविशेषः । स तु द्वाविंशजिनमाता । इति त्रिकाण्डशेषः ॥ हरिद्रा । दूर्व्वा । गोरो- चना । इति राजनिर्घण्टः ॥ * ॥
शृगालस्य ध्वनेः शुभाशुभं यथा, —
“शोभनं शुभफलाप्तिसूचकं कथ्यतेत्यवितथं शिवारुतम् । शान्तदीप्तककुभां विशेषतो ज्ञानमत्र च सदोपयुज्यते ॥ दग्धा दिगुक्ता दिननाथयुक्ता विवस्वदाप्ता भवति प्रदीप्ता । सा धूमिता यां सविता प्रयातः शेषा दिगन्ताः किल पञ्च शान्ताः ॥ दग्धा दिगैशी ज्वलिता दिगैन्द्री प्रधूमिता चानलदिक्क्रमेण । प्रत्येकमेकं प्रहराष्टकेन भुङ्क्ते दिशोऽष्टौ सविता क्रमेण ॥ आद्ये दिनस्य प्रहरे प्रवृत्ते महेशदेवेशहुताशदिक्षु । शिवा रटन्ती कुरुते नराणां संत्रासकायव्ययबन्धनानि ॥ अह्नो द्वितीये प्रहरस्य भागे सहस्रनेत्रानलकालदिक्षु । शिवा रटन्ती कुरुते नराणां संत्रासकायव्ययबन्धनानि ॥ ब्राह्म्ये तृतीये प्रहरे दिनस्य हुताशवैवस्वतयातुदिक्षु । शिवा रटन्ती कुरुते नराणां संत्रासकायव्ययबन्धनानि ॥ समागतेऽह्नः प्रहरे तुरीये प्रेतेशरक्षःपतिपाशिदिक्षु । शिवा रटन्ती कुरुते नराणां संत्रासकायव्ययबन्धनानि ॥ आद्ये निशायाः प्रहरे प्रवृत्ते रक्षोऽधियादःपतिवातदिक्षु । शिवा रटन्ती कुरुते नराणां संत्रासकायव्ययबन्धनानि ॥ ततो द्वितीयप्रहरे रजन्या- स्तोयोऽधिनाथानिलसोमदिक्षु ॥ शिवा रटन्ती कुरुते नराणां संत्रासकायव्ययबन्धनानि ॥ यामे तृतीयेऽपि च यामवत्याः समीरदोषाकरशम्भदिक्षु । शिवा रटन्ती कुरुते नराणां सत्रासकायव्ययबन्धनानि ॥ समागते रात्रितुरीययामे निशाकरेशानसुरेशदिक्षु । शिवा रटन्ती कुरुते नराणां संत्रासकायव्ययबन्धनानि ॥” इति शिवारुते दग्धदीप्तधूमितदिक्त्रययाम- प्रकरणं प्रथमम् ॥ * ॥
“इतीरितं दिक्त्रययामयोगात् फलं विरुद्धं विरुतैः शिवायाः । ब्रूमोऽथ दिक्पञ्चकयामयोगात् फलानि पुंसां क्रमतः शुभानि ॥ कृतान्तरक्षोवरुणानिलेन्दु- दिक्ष्वाद्ययामे रटितैः, शृगाल्याः । स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि- र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥ रक्षः प्रचेतोऽनिलसोमशम्भु- दिक्षु द्वितीये प्रहरे रुतेन । स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि- र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥ जलेशवातेन्दुशिवामरेश- दिक्ष्वारवेण प्रहरे तृतीये । स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि- र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥ समीरसोमेशसुरेशवह्नि- दिक्षु स्वरेण प्रहरे चतुर्थे । स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि- र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥ शशाङ्करुद्रेन्दुहुताशकाल- दिक्ष्वारवैः पञ्चमयामभागे । स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि- र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥ ईशानशक्राग्निकृतान्तरक्षो- दिक्षु स्वरेण प्रहरे च षष्ठे । स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि- र्लाभः मुभिक्षं प्रियलोकसङ्गः ॥ इन्द्राग्निकालस्रपपाशपाणि- दिक्ष्वारवैः सप्तमयामकाले । स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि- र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥ अत्यन्तकृन्नैरृतपाशिवात- दिक्ष्वष्टमे च प्रहरे रवेण । स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि- र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥” इति श्रीवसन्तराजे शिवारुते दिग्यामप्रकरणं द्वितीयम् ॥ * ॥
“एकादिकानां निधनाष्टमानां शिवारुतानामधुना यदर्थम् । प्राच्यादिकास्वष्टसु दिक्ष्वशेषं यद्यत् फलं तत्तदुदीरयामः ॥ धनान्यभीष्टाप्तिमभीष्टलाभं ध्रुवं ततोऽर्थस्य फलं शुभञ्च । भयं प्रलापं सकलञ्च सौख्य- मेकादिशब्दैः कुरुते प्रशान्ते ॥ भयान्यनिष्टश्रुतिरर्थहानि- रिष्टैर्व्वियोगो महती च भीतिः । स्याद्विग्रहाप्तिर्म्मरणञ्च दीप्ते त्वेकादिना चेत् कृतसप्तकेन ॥ ऐन्द्र्यां निनादे प्रथमेऽर्थलाभो भवेद्द्वितीये निधिदर्शनञ्च । कन्यां तृतीये लभते चतुर्थे अध्वागमं पञ्चमकेऽथ सिद्धिम् ॥ षष्ठे रवे कुप्यति भूमिनाथो भीः सप्तमे स्याद्विफलोऽष्टमेषु ॥ त्रासोऽग्निभागे प्रथमे द्वितीये नराधिपः कुप्यति भीस्तृ तीये ॥ घातश्चतुर्थे नगरस्य शब्दे शिवाकृते पञ्चमके च युद्धम् । वदन्ति तज्ज्ञाः कलहञ्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ आद्ये शुभं स्यादशुभं द्वितीये याम्ये महाव्याधिभयं तृतीये । स्वरे चतुर्थे स्वजनागमः स्यात् पुत्त्रो भवेत् पञ्चसु फेत्कृतेषु ॥ जायेत कन्या रटिते च षष्ठे भोः सप्तमे स्याद्विफलोऽष्टमस्तु । ग्रामस्य घातो दिशि राक्षसाना- माद्ये द्वितीयेऽपि च गोकुलस्य ॥ मृत्युस्तृतीये द्विचतुष्पदानां हानिश्चतुर्थेऽपि च पञ्चमेऽत्र । चौराद्भयं राजभयञ्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ शब्दे शिवाया वरुणस्य भागे आद्ये भयं हानिरथ द्वितीये । स्याद्राजदूतागमनं तृतीये दाहश्चतुर्थे खलु चौरभीतिः ॥ स्यात् पञ्चमे राजभयश्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु । वायव्यभागे भयमेकशब्दे भयातिरेको भवति द्वितीये ॥ वृष्टिस्तृतीये महृती चतुर्थे मेघागमो वर्षति पञ्चमे च । क्रोधं विधत्ते मृपतेश्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ दिश्युत्तरस्यां विहिते विरावे म्रियेत कश्चित् प्रथमे द्वितीये । महाभयं विप्रवधस्तृतीये क्षत्त्रं चतुर्थे खलु हन्यते च ॥ विट् पञ्चमे षष्ठरवे च शूद्रो भीः सप्तमे स्याद्विफलोऽष्टमस्तु । राहोस्तथा दर्शनमाद्यशब्दे केतोर्द्वितीये च तथोत्तरेण ॥ उल्काप्रपातस्त्रिषु दुर्द्दिनञ्च चतुर्षु भद्रं खलु पञ्चमे च । सङ्गो भवेद्वैरिजनश्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ आद्ये भवेद्दर्दिनमीशदेशे वृष्टिर्द्वितीये च रवे शिवायाः । वातस्तुतीये त्वशनिश्चतुर्थे म्रियेत कश्चित् खलु पञ्चमे च ॥ लभेत पृथ्वीं निनदे च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥” इति श्रीवसन्तराजे शिवारुते स्वराष्टकप्रकरणं तृतीयम् ॥ * ॥
“क्षेमलाभपुनरागमनानां निश्चयं यमधिगम्य विशङ्कः । येन याति पथिकः परदेशं तं शिवारुतमथ प्रथयामः ॥ यं यं देशं गन्तुमभ्युद्यतानां पुंसां शब्दानुच्चरन्ती शृगाली । शान्तायां सा सिद्धये वाञ्छितानां दीप्तायान्तु स्यादभीष्टक्षयाय ॥ प्राचीं दिशं सन्मुखभानुविम्बं प्रतिष्ठमानस्य नरस्य यस्य । शब्दं शृगाली पुरतः करोति बन्धं वधं वा प्रकरोति तस्य ॥ प्राचीदिगीशाभिमुखस्य पुंसः प्रस्थानकामस्य शिवा सशब्दा । भियेऽर्थनाशाय च दक्षिणा स्या- द्वामा पुनर्वाञ्छितकार्य्यसिद्ध्यै ॥ प्रत्यर्कमाशां चलितस्य पूर्व्वां शिवा विरावं पुरुषस्य यस्य । करोति पृष्ठे प्रकरोति तस्य सर्व्वप्रकारामभिलाषसिद्धिम् ॥ प्रस्थापिनो यस्य च दक्षिणाशां शिवा रवं मुञ्चति दक्षिणेन । आदित्यमुक्ता यदि नो तदानीं ध्रुवं भवेत्तस्य महीपतित्वम् ॥ वैवस्वताशां चलितस्य यस्य दिवाकरस्तिष्ठति दक्षिणेन । शिवा च वामा कुरुते विरावं सम्पद्यते तस्य समस्तमिष्टम् ॥ पुमान् यदा याम्यककुप्प्रवासी करोति शब्दं पुरतः शृगाली । आस्ते विवस्वानपि सम्मु खश्चेत् भवेत् तदानीमचिरेण मृत्युः ॥ नरस्य याम्यां ककुभं यियासोः शृगालभार्य्या यदि पृष्ठभागे । फेत्कारमामुञ्चति मानवस्य मृत्युश्च पुत्त्रेण भवत्यवश्यम् ॥ दिशं प्रतीचीं व्रजतः शृगाली नरस्य यस्याभिमुखी विरौति । शान्ता स्थिता शान्तफलप्रदात्नी दीप्ता तु दीप्तं फलमातनोति ॥ प्राचेतसों सञ्चलितस्य काष्ठां शृगालिका जल्पति दक्षिणेन । यदा तदानीं सुबहूननर्थान् करोति चार्थानपि हन्ति पुंसः ॥ दिशं प्रवेतःपरिपाल्यमानां नरस्य यस्य व्रजतः शृगाली । वामा विरावं प्रकरोति शान्ता भवन्त्यभिप्रेतफलानि तस्य ॥ यो वारुणों याति दिशं मनुष्यः शृण्वन् शिवाया रटितानि पृष्ठे । गतस्य तस्याशु हुताशभीति- रसंशयं स्यात् द्रविणक्षयश्च ॥ यस्योत्तराशां चलितस्य पुंमः प्राच्यां शिवा मुञ्चति फेत्कृतानि । भानुःप्रतीच्यां विहितस्थितिश्चे- दपेक्षितं सिध्यति तत्क्षणेन ॥ मुञ्चत्यदीचीं चलितस्य पृष्ठे शिवा विरावं पुरुषस्य यस्य । आस्ते च मध्ये नभसो विवस्वां- स्तस्यार्थहानिर्मरणं प्रदिष्टम् ॥ कुबेरकाष्ठां प्रति यः प्रयाति ज्वालामुखी चाभिमुखी विरौति । तस्याध्वगस्याभिमतार्थसिद्धि- र्भवेच्च सम्पत् पुनरागमश्च ॥ तिष्ठति तीव्रकरो दिशि यस्यां फेत् कुरुते यदि तत्र शृगाली । तद्व्रजतः पथिकस्य भवेतां निश्चयतो धनजीवितनाशौ ॥ दक्षिणतः प्रथमं यदि पश्चात् वामगता पथिकस्य शृगाली । फेत् कुरुते कुरुते तदवश्यं क्षेमधनाप्तिगृहागमनानि ॥ अध्यास्य शान्तां ककुभं नरस्य वामा शृगाली यदि वा रटन्ती ॥ तदार्थलाभं वितरत्यवश्य- मर्थक्षयं दक्षिणतो रटन्ती ॥ वामा प्रदीप्ते ककुभः प्रदेशे- ऽलाभं तथानर्थमुपादिशन्ति । शिवा रटन्ती पथि दक्षिणा तु क्षिपत्यनर्थानथ सङ्कटेषु ॥ शान्ते दिगन्ते यदि वा प्रदीप्ते पृष्ठे प्रयाणे प्रतिषेधयित्रो । शब्दायमाना तु शिवा पुग्स्तात् निमज्जयत्यापदगाधसिन्धौ ॥ वामेऽपसव्ये पुरतोऽथ पृष्ठे पुंमः शिवा जल्पति यत्र तत्र । आयान्ति चौराः प्रथमे विरावे द्वयोर्भवेत्तस्करदर्शनञ्च ॥ नृपादरोऽर्थागमनं तृतीये तुर्य्ये क्षतिः पञ्चमकेऽर्थलाभः । वाणिज्यसेवादिफलाय षष्ठे भोः मप्तमे स्याद्विफलोऽष्टमस्तु ॥ हाहारवं मुञ्चति हृष्टभावा हास्यं तु तस्यास्तदुदाहरन्ति । अग्रेसरा वा पथि या यियासोः सा द्विप्रकारापि मनोरथाप्त्यै ॥ नृपस्य यात्रासमये पुरस्तात् प्रयाति चेद्वर्त्म निवेदयन्ती । कुर्य्याच्छिवा वैरिपराभवं त- ज्जयश्रियञ्चाभिमतं विदध्यात् ॥ कार्य्यान्तरेष्वप्यनुगम्यमाना श्रेयःप्रदा शान्तदिशि प्रदिष्टा । शिवा प्रदीप्ते तु दिशि प्रदेशे समारटन्ती महते भयाय ॥ भयोद्गमे दीप्तदिशि प्रदीप्तै- र्नादैनृणां हन्ति भयानि देवी । महान्ति सर्व्वाण्यपि शान्तनादाः शान्तस्थिता सर्व्व भयप्रदात्री ॥ यदा च नद्युत्तरगा नराणां शब्दे शृगाली कुरुते कदाचित् । तटद्वये तत् परिरक्षणीयं महद्भयं भावि जलेचरेभ्यः ॥” इति श्रीवसन्तराजे शिवारुते यात्राप्रकरणं चतुर्थम् ॥ * ॥
“स्थानस्थितानामपि योगभाजां नैमित्तिकानामुपदिश्यते तु । शिवाविरावैरशिवं शिवञ्च सुनिश्चितार्थं मुनिसम्मतेन ॥ करोति फे फे इति सर्व्वदिक्षु यदा तदा स्थानविघातयुद्धे । शिवा विधत्ते क्षुधिता त्वसंख्यान् रौद्रान् स्वरान् मुञ्चति चेदुपेक्षाम् ॥ निरन्तरं रौति विदिक्षु दिक्षु समन्दकारुण्यरवातुरा चेत् । अपत्यमोहेन यदा शृगाली त्यक्त्यस्पृ हा सा कथितेह तजज्ञैः ॥ स्थित्वा प्रदीप्ते ककुभो विभागे ज्वालामुखी फेत् कुरुतेऽतिरौद्रम् । ग्रामस्य तस्य प्रकरोति नाशं तस्याथवा तिष्ठात यस्य मध्ये ॥ ग्रामस्य मध्यं समवाप्य यस्य ज्वालामुखी मुञ्चति फेत्कृतानि । स शून्यतां गच्छति निश्चयेन लोकस्य वा स्यादसुख प्रभूतम् ॥ ग्रामान्तिके सप्त दिनानि यावत महाभयोत्पादितफेत्कृतानि । विरौति चेत्तत् कुरुते शृगाली तद्वासिलोकस्य भयं प्रभूतम् ॥ मध्यं दिने यावदहानि पञ्च शिवा समीपे नगरस्य तस्य विरौति घातं विदधाति यस्य भयञ्च वह्निप्रभवं प्रभूतम् ॥ पञ्चार्द्धरात्राणि कथञ्चिदेषा क्रू रारवा व्याहरते शृगाली । यस्यान्तिके तं बहवो हठेन मुष्णन्ति चौरा जनसन्निवेशे ॥ स्थानस्य यस्योपगता समीपं दिनानि पञ्चोच्चरति प्रभावे । स्वरेण रौद्रेण शृगालभार्य्या स्यात्तत्र हानिर्महती नराणाम् ॥ सुरक्षितस्यापि मनुष्यलक्षै- र्ग्रामस्य शीघ्रं ग्रहणं विधत्ते । त्रयं दिनानां दिवसावसाने शिवा रटन्ति परुषस्वरेण ॥ दिक्ष्वारटन्ति सकलासु रौद्रं भ्रमत्यखिन्ना परितः पुरश्चेत् । शृगालभार्य्या खलु तद्व्रवीति युद्धं महत्तत्र महाभिघातम् ॥ ज्वालां विमुञ्चत्यतिरौद्रनादा समाकुला धावति या समन्तात् । कौमारकं या जनयत्यकस्मात् । कुर्य्याच्छिवा सा युवराजपातम् ॥ रोमोद्गमं या जनयत्यकस्मात् फे इत्यतिक्रूररवा नराणाम् । मूत्रं पुरीषन्तु तुरङ्गमाणां सा सर्व्वदा स्यादशिवा शिवेह ॥ तरङ्गिणीरोधसि सौम्यरूपां- स्त्रीन् पञ्च वा मुच्यति या निनादान् । शिवां शिवां तां नृपतित्वदात्रीं वन्देत देवीमभिवन्दनीयाम् ॥ श्मशानभूमौ दिनमध्यभागे मध्ये रजन्याः स्वगृहप्रदेशे । या रौति तस्यै बलिमर्घ्ययुक्त्रं भक्त्या प्रदद्याद्यदि भद्रमिच्छेत् ॥ सर्व्वेषु कार्य्येषु समुद्यतेषु बलिः शिवाया विनिवेदनीयः । गृह्णाति यन्मिन् विषयेऽभ्युपेत्य देवी बलिं जल्पति तत्र सिद्धिम् ॥” इति श्रीवसन्तराजे शिवारुते स्थानस्थितप्र- करणं पञ्चमम् ॥ * ॥
“कथ्यते बलिविधानमिदानीं शाकुनागममतेन शिवायाः । दिव्यमन्त्रबलिवाधितदोषं साधिताखिलसमुद्यतकार्य्यम् ॥ शून्यालयं रुद्रगृहं श्मशानं चतुष्पथं मातृगृहं जलान्तम् । बन्ध्यावनिश्चत्वरमेवमाद्या बलिप्रदानाय मताः प्रदेशाः ॥ तेषाञ्च मध्यादुचितप्रदेशे विशोधितं मण्डलिकं विदध्यात् । पौराणिकश्लोकपरीक्षितायाः संगृह्य गोर्गोमयमन्तरीक्षात् ॥ अत्यन्तजीर्णदेहाया बन्ध्यायाश्च विशेषतः । रोगार्त्तनवसूताया न गोर्गोमयमाहरेत् ॥ तस्मिन् विचित्रं विततं विदध्यात् पिष्टाक्तकेनाष्टदलं सरोजम् । मंपूजयेत्तत्र सुराधिपादीन् क्रमेण सर्व्वानपि लोकपालान् ॥ मध्ये सुतैः पञ्चभिरभ्युपेता शिवान्विता पिष्टमयी प्रसन्ना । पूज्या शिवा तुष्यति भक्तियोगात् प्रभूतपुष्पाक्षतधूपदीपैः ॥ साज्यगुडौदनमाषकुलत्थै- र्यावकपूपलिकामिषमद्यैः । संभृतिरत्र नरासनमात्रं बुद्धिमता बलिकर्म्मणि कार्य्या ॥ प्राप्याष्टमीं वाथ चतुर्द्दशीं वा संमन्त्र्य मन्त्रण च सप्तकृत्वः । बलि शिवाया निशि निश्चयेन दद्यान्मनुष्यो यदि भद्रमिच्छेत् ॥ अत्र मन्त्रः । ॐ शिवे ज्वालामुखि बलिं गृहाण गृहाण हुं फट् स्वाहा । ॐ शिवे शिवदूति भगवति चण्डे इदमर्घ्यं बलिलीला- समुचितं गृहाण गृहाण आगच्छ आगच्छ वायुवेगेन शुभं कुरु कुरु स्वाहा । इत्यर्घ्य- मन्त्रः । बलिदानाय मन्त्रान्तरम् । ॐ नमो भगवति एनं एनं बलिं गृह्ण गृह्ण गन्धपुष्प- धूपदीपादिकं दह दह पच पच घोररूपिणि भो भगवति पिबत पिबत स्वाहा । एतस्य मन्त्रद्वितयस्य मध्या- देकेन केनाप्यभिमन्त्रणीयः । बलिः शिवायाः सुमहाप्रभावं पृथक् पृथक् मन्त्रयुगं यदेतत् ॥ ताम्बूलवस्त्रासनदक्षिणाभि- र्नैमित्तिकं शाकुनशास्त्रदक्षम् । प्रपूजयेत्तत्र भवत्यभीष्ट- माचार्य्यवर्य्ये परितोषिते हि ॥ अश्लेषिकावह्निकृतान्तरुद्र- धिष्ट्यानि पूर्व्वात्रितयेन सार्द्धम् । ज्यष्ठाञ्च सन्त्यज्य विरौति येह श्रेयस्करी जम्बुकगेहिनी सा ॥ हितैषिणी सर्व्वसमीहितेषु देवी भवानी भुवि फेरवा च । कृताधिवासा कृपया सदव शिवारुते तेन यतेत विद्वान् ॥” इति श्रीवसन्तराजशाकुने सदागमार्थशोभने समस्तसत्यकौतुके विरचितं शिवारुतं षष्ठम् ॥ * अथ तान्त्रिकशिवाबलिः । तदुक्तं कुलचूडामणौ “विल्वमूले प्रान्तरे वा श्मशाने वाथ साधकः । मांसप्रधानं नैवेद्यं सन्ध्याकाले निवेदयेत् ॥ कालि कालीति वक्तव्यं ततः सा शिवरूपिणी पशुरूपा समायाति परिवारगणैः सह ॥ भुक्त्वा रौति यदैशान्यां मुखमुत्तोल्य सुस्वरम् । तदैव मङ्गल तस्य नान्यथा कुलभूषण ॥ अवश्यमन्नदानेन नियतं तोषयेच्छिवाम् । नित्यश्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् ॥ तथैव कुलसेव्यानां नित्यता कुलपूजने । पशुरूपां शिवां देवीं यो नार्च्चयति निर्जने ॥ शिवारावेण तस्याशु सर्व्वं नश्यति निश्चितम् । जपपूजाविधानानि यत्किञ्चित् सुकृतानि च । गृहीत्वा शापं दत्त्वा च शिवा रोदिति निर्जने ॥ एकया भुज्यते यत्र शिवया देव भैरव । तत्रैव सर्व्व शक्तीनां प्रीतिः परमदुर्लभा ॥ पशुशक्तिः पक्षिशक्तिर्नरशक्तिर्यथाक्रमात् । पूजनात् द्विगुणं कर्म्म मङ्गलं साधयेत्ततः ॥ तेन सर्व्वप्रयत्नेन कर्त्तव्यं पूजनं महत् । राजादिभयमापन्ने देशान्तरभयादिके ॥ शुभाशुभानि कर्म्माणि विचिन्त्य बलिमाहरेत् । गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि ॥ शुभाशुभफलं व्यक्तं ब्रूहि गृह्ण बलिं तव । एवमुच्चार्य्य दातव्यो बलिः कुलजनप्रियः ॥ यदि नो भुज्यते वत्स तदा नैव शुभं भवेत् । शुभं यदि भवेत्तत्र भुज्यते तदशेषतः । एवं ज्ञात्वा महादेव शान्तिस्वस्त्ययनं चरेत् ॥” इति तन्त्रसारः ॥



Correction: