वाचस्पत्यम्
शिवात्मक || न० शिवो मङ्गल आत्मा यस्य कप् । १ सैन्धवे लवणे राजनि० । २ शिवमये त्रि० ।
शब्दकल्पद्रुमः
शिवात्मकं || क्ली (शिवः सुखकरः आत्मा स्वरूपो यस्य ।) सैन्धवम । इति राजनिर्घण्टः ॥ शिव- मये, त्रि ॥