वाचस्पत्यम्
शिवारुत || न० ६ त० । शृगालीशब्दे दिग्भेदे तस्य शुभाशुभ- फलं वसन्तराजशाकुने उक्तं यथा “शोभनं शुभफलाप्तिसूचकं कथ्यते त्ववितथं शिवारुतम् । शान्तदीप्तककुभां विशेषतो ज्ञानमत्र च सदापयुज्यते । दग्धा दिगुक्ता दिननाथयुक्ता विवस्वताप्ता भवति प्रदीप्ता । सा धूमिता यां सविता प्रयातः शेषा दिगन्ताः फिल पञ्च शान्ताः । दग्धा दिगैशी ज्वलिता दिगैन्द्रो प्रधूमिता चानलदिक्क्रमेण । आद्ये दिनस्य प्रहरे प्रवृत्ते महेश- देवेशहुताशदिक्षु । शिवा रटन्ती कुरुते नराणां संत्रा- सकायव्ययबन्धनानि । अह्नो द्वितीये प्रहरस्य भागे सहस्रनेत्रानलकालदिक्षु । शिवा रटन्ती कुरुते इत्यादि । ब्राह्म्ये तृतीये प्रहरे दिनस्य हुताशवैवस्वतयातुदिक्षु । शिवा रटन्ती कुरुते इत्यादि । समागतेऽह्नः प्रहरे तुरीवे प्रेतेशरक्षःपतिपाशिदिक्षु । शिवा रटन्ती कुरुते इत्यादि । आद्ये निशायाः प्रहरेप्रवृत्ते रक्षाऽधियादः- पतिवातदिक्षु । शिवा रटन्ती कुरुते इत्यादि । ततो द्वितीयप्रहरे रजन्यास्तोयाधिनाथानिलसोमदिक्षु । शिवा रटन्ती कुरुते इत्यादि । यामेन्तृतीयेऽपि च यामवत्याः समीरदोषाकरशम्भुदिक्षु । शिवा रटन्ती कुरुते इत्यादि । समागते रात्रितुरीययामे निशाकरेशानसुरेशदिक्षु । शिवा रटन्ती कुरुते इत्यादि । इतीरितं दिक्त्रय- यामयोगात् फलं विरुद्धं विरुतैः शिवायाः । ब्रूमो- ऽथ दिक्पञ्चकयामयोगात् फलानि पुंसां क्रमतः शु- भानि । कृतान्तरक्षोवरुणानिलेन्दुदिक्ष्वाद्ययामे रवितैः शृगाल्याः । स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सु- भिक्षं प्रियलोकसङ्गः । रक्षःप्रचेतोऽनिलसोमशम्भुदिक्षु द्वितीये प्रहरे रुतेन । स्यादिष्टवार्त्ताश्रुतिरित्यादि । जलेशवातेन्दुशिवामरेशदिक्ष्वारवेण प्रहरे तृतीये । स्यादिष्टवार्त्ताश्रुतिरित्यादि । समीरसोमेशसुरेशवह्निदिक्षु स्वरेण प्रहरे चतुर्थे । स्यादिष्टवार्त्ताश्रुतिरित्यादि । शशा- ङ्करुद्रेन्द्रहुताशकालदिक्ष्वारवैः पञ्चमयामभागे । स्यादि- ष्टवार्त्ताश्रुतिरित्यादि । ईशानशक्राग्निकृतान्तरक्षोदिक्षु स्वरेण प्रहरे च षष्ठे । स्यादिष्टवार्त्ताश्रुतिरित्यादि । इन्द्राग्निकालासूपपाशपाणिदिक्ष्वारवैः सप्तमयामकाले । स्यादिष्टवार्त्ताश्रुतिरित्यादि । अत्यन्तकृन्नैरृतषाशिवात- दिक्ष्वष्टमे च प्रहरे रवेण । स्यादिष्टवार्त्ताश्रुतिरित्यादि । “एकादिकानां निधनाष्टमानां शिवारुतानामधुना यद- र्थम् । प्राच्यादिकास्वष्टसु दिक्ष्वशेषं यद्यत् फलं तत्तदुदीरयामः । धनान्यभीष्टाप्तिमभीष्टलाभं ध्रुवं ततोऽर्थस्य फलं शुभञ्च । भयं प्रलापं सकलञ्च सो- ख्यमेकादिशब्दैः कुरुते प्रशान्ते । भयान्यनिष्टश्रुति- रर्थहानिरिष्टैर्वियोगो महती च भीतिः । स्याद्वि- ग्रहाप्तिर्मरणञ्च दीप्ते त्वेकादिना चेत् कृतसप्तकेन । ऐश्यां निनादे प्रथमेऽर्थलाभो भवेद्द्वितीये निधिदर्शनञ्च । कन्यां तृतीये लभते चतुर्थे त्वध्वागमं पञ्चमकेऽथ सि- द्धिम् । षष्ठे रवे कुप्यति भूमिनाथा भोः सप्तमे स्याद्विफ- लोऽष्टयस्तु । त्रासोऽग्निभागे प्रथमे द्वितीये नराधिपः कुप्यति भीस्तृतीये । घातश्चतुर्थे नगरस्य शब्दे शिवा- कृते पञ्चमके च युद्धम् । वदन्ति तज्ज्ञाः कलहश्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु । आद्ये शुभ स्यादशुभ द्वितीये याम्ये महाव्याधिभयं तृतीये । स्वरे चतुर्थे स्व- जनागमः स्यात् पुत्रा भवेत् पञ्चसु फेत्कृतेषु । जायेत कन्या रटिते च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु । ग्रामस्य घातो दिशि राक्षसानामाद्ये द्वितीयेऽपि च गोकुलस्य । मृत्युस्तृतीये द्विचतुष्पदानां हानिश्चतुर्थे- ऽपि च पञ्चमेऽत्र । चौराद्भयं राजभयञ्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु । शब्दे शिवाया वरुणस्य भागे आद्ये भयं हानिरथ द्वितीये । स्याद्राजदूतागमनं तृतीये वादश्चतुर्थे खलु चौरभीतिः । स्यात् पञ्चमे राजभयञ्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु । वायव्यभागे भय- मेकशब्दे भयातिरेको भवति द्वितीये । वृष्टिस्तृतीये भहती चतुर्थे मेधागमे वर्षति पञ्चमे च । क्रोधं वि- घत्ते नृपतेश्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु । दिश्युत्तरस्यां बिहिते विरावे म्रियेत कश्चित् प्रथमे द्वि- तीये । महाभयं, विप्रबधस्तृतीये क्षत्रं चतुर्थे खलु हन्यते च । विट् पञ्चमे षष्ठरवे च शूद्रा भीः सप्तमे स्या- द्विफलोऽष्टमस्तु । राहोस्तथा दर्शनमाद्यशब्दे केतो- र्द्वितीये च तथोत्तरेण । उल्कापपातस्त्रिषु दुर्दिनञ्च चतुर्षु भद्रं खलु पञ्चमे च । सङ्गो भवेद्वैरिजनैश्च षष्ठे भोः सप्तमे स्याद्विफलोऽष्टमस्तु । आद्ये भवेद्दुर्दि- नमोशदेशे वृष्टिर्द्वितीये च रवे शिवायाः । वातस्तृतीये त्वशनिश्चतुर्थे म्रियेत कश्चित् खलु पञ्चमे च । लभेत पृथ्वीं निनदे च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु” “क्षेमलाभपुनरागमनानां निश्चयं यमधिगम्य विशङ्कः । येन याति पथिकः परदेश तं शिवारुतमथ प्रथयामः । यं यं देशं गन्तुमभ्युद्यतानां पुंसां शब्दानुच्चरन्ती शृगाली । शान्तायां सा सिद्धये वाञ्छितानां दीप्तायान्तु स्यादभी- ष्टक्षयाय । प्राचीं दिशं सम्मुखभानुविम्बं प्रतिष्ठमानस्य नरस्य यस्य । शब्दं सृगाली पुरतः करोति बन्धं बधं वा प्रकरोति तस्य । प्राचीदिगीशाभिमुखस्य पुंसः व्रस्थानकामस्य शिवा सशब्दा । भियेऽर्थनाशाथ च द क्षिणा स्याद्वामा पुनर्वाञ्छितकार्य्यसिद्ध्यै । प्रत्यर्कमाशां चलितस्य पूर्वां शिवा विरावं पुरुषस्य यस्य । करोति पृष्ठे प्रकरोति तस्य सर्वप्रकारामभिलाषसिद्धिम् । प्रस्था- यिनो यस्य च दक्षिणाशां शिवा रतं मुञ्चति दक्षिणेन । आदित्यमुक्ता यदि नो तदानीं ध्रुवं भवेत्तस्य महीपति- त्वम् । वैवस्वताशाचलितस्य यस्य दिवाकरस्तिष्ठति दक्षिणेन । शिवा च वामा कुरुते विरावं सम्पद्यते तस्य समस्तमिष्टम् । पुमान् यदा याम्यककुप्प्रवासी क- रोति शब्दं पुरतः शृगाली । आस्ते विवस्नानपि सम्भुखश्चेत् भवेत् तदानीमचिरेण मृत्युः । नरस्य याम्यां ककुभं यियासोः शृगालभार्य्या यदि पृष्ठभामे । फेत्कारमामुञ्चति मानवस्य मृत्युश्च पुत्रेण भवत्यवश्यम् । दिशं प्रतीचीं व्रजतः शृगाली नरस्य यस्याभिमुखी विरौति । शान्तास्थिता शान्तफलादात्री दीप्तास्थिता दीप्त- फलं तनोति । प्राचेतसीं सञ्चलितस्य काष्ठां शृगालिका जल्पति दक्षिणेन । यदा वदानीं सुबहूननर्थान् करोति चार्थानपि हन्ति पुंसः । दिशं प्रचेतःपरिपाल्यमानां नरस्य यस्य व्रजतः शृगाली । वामा विरार्व प्रकरोति शान्ता भवन्त्यभिप्रेतफलानि तस्य । यो वारुणीं याति दिशं भनुष्यः शृण्वन् शिवायारटितानि पृष्ठे । गतस्य तस्याशु हृताशभीतिरसंशयं स्यात् द्रविणक्षयश्च । यस्यो- त्तराशां चलितस्य पुंसः प्राच्यां शिवा मुञ्चति फेत्कृतानि । भानुः प्रतीच्यां विहितस्थितिश्चेदपेक्षितं सिध्यति तत्- क्षणेन । मुञ्चत्युदीचीं चलितस्य पृष्ठे शिवा विरावं पुरुषस्य यस्य । आस्ते च मध्ये नभसो विवस्वांस्तस्यार्थ- हानिर्मरणं प्रदिष्टम् । कुवेरकाष्ठां प्रति यः प्रयाति ज्वालामुखी चाभिमुखी विरौति । तस्याध्वगस्याभि- मत्यर्थसिद्धिर्भवेच्च सम्पत् पुनरागमश्च । तिष्ठति तीव्रकरो- दिशि यस्यां फेत् कुरुते यदि तत्र शृगाली । तद् व्रजतः पथिकस्य भवेतां निश्चयतो धनजीवितनाशौ । दक्षिणतः प्रथमं यदि पश्चात् वामगता पथिकस्य शृगाली । फेत् कुरुते कुरुते तदवश्यं क्षेमधनाप्तिगृहागमनानि । अ- थास्य शान्तां ककुभं नरस्य वामा शृगाली यदि वा रटन्ती । तदार्थलाभं वितरत्यवश्यमर्थक्षयं दक्षिणती रटन्ती । वामा प्रदीप्ते ककुभः प्रदेशेऽलाभं तथानर्थमुपा- दिशन्ति । शिवा रटन्ती पथि दक्षिणा तु क्षिपत्यनर्थानथ- सङ्कटेषु । शान्ते दिगन्ते यदि वा प्रदीप्ते पृष्ठे प्रयाणे प्रतिषेधयित्री । शब्दायमाना तु शिवा पुरस्तात् निम- ज्जयत्यापदगाधसिन्धौ । वामेऽपसव्ये पुरतोऽथ पृष्ठे पुंसः शिवा जल्पति यत्र तत्र । आयान्ति चौराः प्रथमे विरावे द्वयोर्भवेत्तस्करदर्शनञ्च । नृपादरोऽर्थागमनं तृतीये तुर्य्ये क्षतिः पञ्चमकेऽर्थलाभः । वाणिज्यसेवादिफलाय षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु । हाहारवं मुञ्चति हृष्टभावा हास्यं तु तस्यास्तदुदाहरन्ति । अग्रेसरा वा पथि या यियासोः सा द्बिप्रकाराषि मनोरथाप्त्यै । नृपस्य यात्रासमये पुरस्तात् प्रायाति चेद्वर्त्मनि वेदयन्ती । कुर्य्याच्छिवा वैरिपराभवं तज्जयश्रियञ्चाभिमतं विद- ध्यात् । कार्य्यान्तरेष्वप्यनुगम्यमाना श्रेयःप्रदा शान्त- दिशि प्रदिष्टा । शिवा प्रदीप्ते तु दिशि प्रदेशे समारटन्ती महते भयाय । भवोद्गमे दीप्तदिशि प्रदीप्तैर्नादैर्नृणां हन्ति भयानि देवी । महान्ति सर्वाण्यपि, शान्तनादा शान्तस्थिता सर्वभयप्रदात्री । यदा च नद्युत्तरगा नराणां शब्दं शृनाली कुरुते कदाचित् । तटद्वये तत्परिरक्षणीयं महद्भथं भावि जलेचरेभ्यः” । “स्थानस्पितानामपि योग- भाजां नैमित्तिकानासुपदिश्यते तु । शिवाविरावैरशिवं शिवञ्च सुनिश्चितार्थं मुनिसम्मतेन । करोति फे फे इति सर्वदिक्षु यदा तदा स्थानविघातयुद्धे । शिवो विधत्ते क्षुधिता त्वसंख्यान् रौद्रान् स्वरान् मुञ्चति चेदुपेक्षाम् । निरन्तरं रौति विदिक्षुदिक्षु समन्दकारुण्यवरातुरा चेत् । अपत्यमोहेन यदा शृगाली त्यक्तस्पृहा सा कथितेह तज्ज्ञैः । स्थित्वा प्रदीप्ते ककुभो विभागे ज्वालामुखी फेत्कुरुतेऽतिरौद्रम् । ग्रामस्य तस्य प्रकरोति नाशं तस्याथ वा तिष्ठति यस्य मध्ये । ग्रामस्य मध्यं समवाप्य यस्य ज्वालामुखी मुञ्चति फेत्कृतानि । स शून्यतां गच्छति निश्चयेन लोकस्य वा स्यादसुखं प्रभूतम् । ग्रामा- न्तिके सप्तदिनानि यावत् महाभयोत्पादितफेत्कृतानि । विरौति चेत्तत् कुरुते शृगालो तद्वासिलोकस्य भयं प्रभूतम् । मध्यंदिने यावदहानि पञ्च शिवा समीपे नगरस्य यस्य । विरौति घातं विदधाति तस्य भयञ्च बह्निप्रभवं प्रभूतम् । पञ्चार्द्धरात्राणि कथञ्चिदेषा क्रूरा- रवा व्याहरते शृगाली । यस्यान्तिके तं बहवो हठेन मुष्णन्ति चौरा जनसन्निवेशे । स्थानस्य यस्योपगता समीपं दिनानि पञ्चोच्चरति प्रभाते । स्वरेण रौद्रेण शृ- गालभार्य्या स्यात्तत्र हानिर्महती नराणाम् । सुरक्षित- स्यापि मनुष्यलक्षैर्ग्रामस्य शीघ्रं हरणं विधत्ते । त्रयं दिबानां दिवसावसाने शिवारटन्ती परुषस्वरेण । दिक्ष्वा- रटन्ती सकलासु रौद्रं भ्रमत्यखिन्ना परितः पुरश्चेत् । शृगालभार्य्या खलु तद्ब्रवीति युद्धं महत्तत्र महाभि- घातम् । ज्वालां विमुञ्चत्यतिरौद्रनादा समाकुला धावति या समन्तात् । कौमारक था जनयत्यकस्मात् कुर्य्याच्छिवा सा युवराजपातम् । रोमोद्गमं या जनयत्य- कस्मात् फेइत्यतिक्रूररवा नराणाम् । मूत्रं पुरी- षन्तु तुरङ्गमाणां सा सर्वदा स्यादशिवा शिवेह । तरङ्गिणोरोधसि सौम्यरूपांस्त्रीन् पञ्च वा मुञ्चति या निनादान् । शिवां शिवां तां नृपतित्वदात्रीं वन्देत देवीमभिवन्दनीयाम् । श्मशानभूमौ दिनमध्यभागे मध्ये रजन्याः स्वगृहप्रदेशे । सा रौति तस्यै बलिमर्घ्य- युक्तं भक्त्या प्रदद्याद् यदि भष्ट्रमिच्छेत् । सर्वेषु कार्येषु समुद्यतेषु बलिः शिवाया विमियेदनीयः । गृह्णाति यस्मिन् विषयेऽभ्युपेत्य देवी बलिं जल्पति तत्र सिद्धिम्” “कथ्यते बलिविधानमिदानीं शाकुनागममतेन शिवायाः । दिव्यमन्त्रबलिबाधितदोषं साधिताखिलसमुद्यतकार्यम् । शून्यालयं रुद्रगृहं श्मशानं चतुष्पथं मातृगृहं जलान्तम् । बन्ध्यावनिश्चत्वरमेवमाद्या वलिप्रदानाय मताः प्रदेशाः । तेषाञ्च मध्यादुचितप्रदेशे विशो- धितं मण्डलिकं विदध्यात् । पौराणिकश्लोकपरी- क्षितायाः सगृह्य गोर्गोमयमन्तरीक्षात् । अत्यन्तजीर्ण- देहाया बन्ध्यायाश्च विशेषतः । रोगार्त्तनवसूताया न गोर्गोमयमाहरेत् । तस्मिन् विचित्रं विततं विदध्यात् पिष्टाक्तकेनाष्टदलं सरोजम् । संपूजयेत् तत्र सुराधि- पादीन् क्रमेण सर्वानपि लोकपालान् । मध्ये सुतैः पञ्चभिरभ्युपेता शिवान्विता पिष्टमयी प्रसन्ना । पूज्या शिवा तुष्यति भक्तियोगात् प्रभूतपुष्पाक्षतधूपदीपैः । साज्यगुडौदनमाषकुलत्थं र्यावकपूपलिकामिषमद्यैः । संभृ- तिरत्र नराशनमात्रं बुद्धिमता बलिकर्मणि कार्य्या । प्राप्याष्टमीं वामचतुर्दशीं वा संमन्त्र्य मन्त्रेण च सप्त कृत्वः । बलिं शिवाया निशि निश्चयेन दद्यान्मनुष्यो यदि भद्रमिच्छेत्” ।