संस्कृत-शब्दकोशः

शिवालु शिवास्मृति

शिवावलि

शब्दकल्पद्रुमः

शिवा(ब)वलिः || पुं, (शिवाभ्यो दीयमानो वलिः ।)
रात्रौ शिवादेयमांसप्रधाननैवेद्यम् । यथा । अथ शिवावलिः । कुलचूडामणौ । “विल्वमूले प्रान्तरे वा श्मशाने वापि साधकः मांसप्रधाननैवेद्यं सन्ध्याकाले निवेदयेत् ॥ कालि कालीति वक्तव्ये तत्रोमा शिवरूपिणी । पशुरूपधरायाति परिवारगणैः सह ॥ भुक्त्वा रौति यदैश्यान्यां मुखमुत्तोल्य सुस्वरम् । तदैव मङ्गलं तस्य नान्यथाकुल भूषण ॥ अवश्यमन्नदानेन नियतं तोषयेच्छिवाम् । नित्यश्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् ॥ तथैव कुलसेव्यानां नित्यता कुलपूजने । पशुरुपां शिवां देवीं यो नार्च्चयति निर्ज्जने ॥ शिवारावेण तस्याशु सर्व्वं नश्यति निश्चितम् । जपपूजाविधानानि यत्किञ्चित् सुकृतानि च ॥ गृहीत्वा शापं दत्त्वा च शिवा रोदिति निर्ज्जने । एकया भुज्यते यत्र शिवया देव भैरव ॥ तत्रैव सर्व्व शक्तीनां प्रीतिः परमदुर्ल्लभा । पशुशक्तिः पक्षिशक्तिर्नरशक्तिर्यथाक्रमात् ॥ पूजनात् द्विगुणं कर्म्म मङ्गलं साधयेत्ततः । तेन सर्व्व प्रयत्नेन कर्त्तव्यं पूजनं महत् ॥ * ॥
राजादिभयमापन्ने देशान्तरभयादिके । शुभाशुभानि कर्म्माणि विचिन्त्य बलिमाहरेत् ॥ गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि । शुभाशुभफलं व्यक्तं ब्रूहि गृह्ण बलिं तव ॥ एवमुच्चार्य्य दातव्यो वलिः कुलजनप्रियः । यदि न भुज्यते वत्स तदा नैव शुभं भवेत् ॥ शुभं यदि भवेत्तत्र भुज्यते तदशेषतः । एवं ज्ञात्वा महादेव शान्तिस्वस्त्ययनं चरेत् ॥ नैवेद्योपरि मूलमन्त्रमष्टोत्तरशतं जप्त्वा वलिं दद्यादिति शेषः ॥” इति तन्त्रसारः ॥



Correction: