संस्कृत-शब्दकोशः

शिविपिष्ट शिवीरथ

शिविर

वाचस्पत्यम्

शिविर ||‍ न० शो + किरच् वुक् च । कटके सैन्यनिवासस्थाने । शिविरलक्षणमुक्तं यथा “शिविरं परिखायुक्तमुच्चैःप्राकारवेष्टितम् । युक्तद्वादश- द्वारञ्च सिंहद्वारपुरस्कृतम् । युक्तं चित्रैर्विचित्रैश्च कृत्रिमैश्च कपाटकैः । निषिद्धवृक्षरहितं प्रसिद्धैश्च पुरस्कृतम् । सुलक्षणं चन्द्रवेधं प्राङ्गिणञ्च तथैव च” । तत्र विहितनिषिद्धवृक्षादि यथा “आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः । शिविरस्य यदीशाने पूर्वे पुत्र- प्रदस्तरुः । सर्वत्र मङ्गलार्हश्च तरुराजी मनोहरः । रसालवृक्षः पूर्वस्मिन्नृणां सम्पत्प्रदस्तथा । शुभ- प्रदश्च सर्वत्र सुरकारो! निशामय । बिल्वश्च पन- सश्चैव जम्बीरो बदरी तथा । प्रजाप्रदश्च पूर्वस्मिन् दक्षिणे धनकस्तथा । सम्पत्प्रदश्च सर्वत्र यतो हि वर्द्धते गृही । जम्बुवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा । बन्धुपदश्च पूर्वस्मिन् दक्षिणे मित्रदस्तथा । सर्वत्र शुभ- दश्चैव धनपुत्रशुभप्रदः । हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा । ईशाने सुखदश्चैव सर्वत्रैव निशामय । सर्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा । अलाबुश्चापि कुष्माण्डं मायाम्बुश्च सुकामुकः । खर्जुरी कर्कटी चापि शिविरे मङ्गलप्रदाः । वास्तूकः कारवेल्लश्च वार्त्ता- कुश्च शुभप्रदाः ॥ लताफद्धञ्च शुभदं सर्वं सर्वत्र निश्चि- तम् । प्रशस्तं कथितं कारो! निषिद्धञ्च निशामय । वन्यवृक्षा निषिद्धश्च शिविरे नगरेऽपि च । वटो निषिद्धः शिविरे नित्यं चौरभयं ततः । नगरेषु प्रसिद्धश्च दर्श- नात् पुण्यदस्तथा । हे कारो! तिन्तिडीवृक्षो यत्नात्तं परिवर्जय । शरेण धनहानिः स्यात् प्रजाहानिर्भवेत् ध्रुवम् । शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च । न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरषु च । वृक्षश्च चणका- दीनां धान्यञ्च मङ्गलप्रदम । ग्रामेषु नगरे चापि शिविरे च तथैव । इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा । अशाकश्च शिरीषश्च कदम्बश्च शुभप्रदाः । । कच्ची हरिद्रा शुभदा शुभदश्चार्द्रकस्तथा । हरीतकी च शुभदा ग्रा- मेषु नगरेषु च । न वाठ्यां भद्रदा नित्यं तथा चाम- लकी ध्रुवम् । गजानामस्थि शुभदमश्वानाञ्च तथैव च । कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम् । न शुभप्रदमन्येषामुच्छन्नकारणं परम् । वानराणां नरा- णाञ्च गर्दभानां गवामपि । कुक्कुराणां शृगालानां मार्ज्जाराणामभद्रकम् । भेटकानां शूकराणां सर्वेषाञ्चा शुभप्रदम् । ईशाने चापि पूर्वस्मिन् पश्चिमे च तथोत्तरे । शिविरस्य जलं भद्रमन्यत्राशुभमेव च । दीर्घे प्रस्थे समानञ्च न कुर्य्यान्मन्दिरं बुधः । चतुरस्रे गृहे कारो! गृहिणां धननाशनम् । दीर्घप्रस्थः परिमितो नेत्राङ्के- नापि संहृतः । शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम । प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयं तथा । गृहिर्णा शुभदं द्वारं प्राकारस्य गृहस्य च । न मध्य- देशे कर्त्तव्य किञ्चिन्न्यूनाधिके शुभम् । चतुरस्रं चन्द्र- वेधं शिविरं मङ्गलप्रदम् । अभद्रं सूर्य्यवेधञ्च प्राङ्गणञ्च तथैव च । शिविराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाम् । धनपुत्रप्रदात्री च पुण्यदा हरिभक्तिदा । प्रभात तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् । मालती यूथिका कुन्दोमाधवी केतकी तथा । नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम् । अपराजिता च शुभदा तेषा- मुद्यानमीप्सितम् । पूर्वे च दक्षिणे चैव शुभदं नात्र- संशयः । ऊर्द्ध्वं षोडशहस्तभ्यो नैवं कुर्य्याद् गृहं गृही । ऊर्द्ध्वं विशतिहस्तेभ्यः प्राकारं न शुभ- प्रदम् । सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम् । वाटीमूले ग्राममध्ये न कुर्य्यात् स्थायिनं बुधः । ब्राह्मणं क्षत्रियं वैश्यं सच्छूद्रं गणकं शुभम् । भट्टं वैद्यं पुष्प- कारं स्थापयेत् शिविरान्तिके! प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् । परितः शिविराणाञ्च गम्भीरं दशहस्तकम् । सङ्केतपूर्वकञ्चैव परिस्वाद्वारमीप्सितम् । शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च । शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव च । निम्बानां सिन्धु- वाराणां उडम्बराणामभद्रकम् । धुस्तूराणां वटानाञ्चा- प्येरण्डानामवाञ्छितम् । एतेषामतिरिक्तानां शिविरे काष्ठमीप्सितम् । वृक्षञ्च वज्रहेतकं दूरतो वर्जयेद् बुधः । पुत्रदारधनं हन्यादित्याह कसलोद्भवः” ब्रह्म- वै० ख० १०२ अ० ।


शब्दकल्पद्रुमः

शिविरं || क्ली (शेरते राजबलान्यत्र । शीङ स्वप्ने + बाहुलकात् किरच्प्रत्ययेन साधु । इत्युणादि- वृत्तौ उज्ज्वलदत्तः । १ । ५४ ।)
निवेशः । इत्य- मरः ॥ द्वे आगन्तुकसैन्यवासे । कटके इत्यन्ये । नृपस्य मूलस्थाने इत्येके । इति भरतः ॥ “शिविरन्तु निवेशे च क्लीवन्तु युद्धवेश्मनि ॥” इत्युणादिकोषः ॥ * ॥
अथ शिविरलक्षणम् । श्रीभगवानुवाच । “शिविरं परिखायुक्तमुच्चैःप्राकारवेष्टितम् । युक्तद्वादशद्वारञ्च सिंहद्वारपुरस्कृतम् ॥ युक्तं चित्रैव्विचित्रैश्च कृत्रिमैश्च कपाटकैः । निषिद्धवृक्षरहितं प्रसिद्धेश्च पुरस्कृतम् । सुलक्षणं चन्द्रवेधं प्राङ्गणञ्च तथैव च ॥” तत्र विहितनिषिद्धकाष्ठे यथा, — विश्वकारुरुवाच । “कस्य कस्य तरोः काष्ठं प्रशस्तं शिविरे प्रभो । अमङ्गलञ्च केषां वा सर्व्वं मां वक्तुमर्हसि ॥ श्रीभगवानुवाच । आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः । शिविरस्य यदीशाने पूर्व्वे पुत्त्रप्रदस्तरुः ॥ सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः । रसालवृक्षः पूर्व्वस्मिन् नृणां सम्पत्प्रदस्तथा ॥ शुभप्रदश्च सर्व्वत्र सुरकारो निशामय । विल्वश्च पनसश्चैव जम्बोरो वदरी तथा ॥ प्रजाप्रदञ्च पूर्व्वस्मिन् दक्षिणे धनदस्तथा । सम्पत्प्रदश्च सर्व्वत्र यतो हि वर्द्धते गृही ॥ जम्बु वृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा । बन्धुप्रदश्च पूर्व्वस्मिन् दक्षिणे मित्रदस्तथा ॥ सर्व्वत्र शुभदश्चैव धनपुत्त्रशुभप्रदः । हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा ॥ ईशाने सुखदश्चैव सर्व्वत्रैवं निशामय । सर्व्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा ॥ अलावुश्चापि कुष्माण्डं मायाम्बुश्च सुकामुकः । खर्ज्जूरी कर्कटी चापि शिविरे मङ्गलप्रदाः ॥ वास्तूकः कारवेल्लश्च वार्त्ताकुश्च शुभप्रदाः । लताफलञ्च शुभदं सर्वं सर्वत्र निश्चितम् ॥ * ॥
प्रशस्तं कथितं कारो निसिद्धञ्च निशामय । वन्यवृक्षो निषिद्धश्च शिविरे नगरेऽपि च ॥ वटो निसिद्धः शिविरे नित्यं चौरभयं ततः । नगरेषु प्रसिद्धश्च दर्शनात् पुण्यदस्तथा ॥ हे कारो तिन्तिडीवृक्षो यत्नात्तं परिवर्ज्जय । शरेण धनहानिः स्यात् प्रजाहानिर्भवेत् ध्रुवम् ॥ शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च । न निषिद्धः प्रषिद्धश्च नगरेषु तथा पुरे ॥ वाट्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्ज्जयेत् । खर्ज्जूरश्च डहुश्चैव निषिद्धः शिविरे तथा ॥ न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च । वृक्षश्च चनकादीनां धान्यञ्च मङ्गलप्रदम् ॥ ग्रामेषु नगरे चापि शिविरे च तथैव च । इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा ॥ अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः । कच्ची हरिद्रा शुभदा शुभदश्चार्द्रकस्तथा ॥ हरीतकी च शुभदा ग्रामेषु नगरेषु च ॥ न वाट्यां भद्रदा नित्यं तथा चामलकी ध्रुवम् ॥ गजानामस्थि शुभदमश्वानाञ्च तथैव च । कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम् ॥ न शुभप्रदमन्ये षामुच्छन्नकारणं परम् । वानराणां नराणाञ्च गर्द्दभानां गवामपि ॥ कुक्कुराणां शृगालानां मार्ज्जाराणामभद्रकम् । भेटकानां शूकरानां सर्व्वेषाञ्चाशुभप्रदम् ॥ ईशाने चापि पूर्व्वस्मिन् पश्चिमे च तथोत्तरे । शिविरस्य जलं भद्रमन्यत्राशुभमेव च ॥ * ॥
दीर्घे प्रस्थे समानञ्च न कुर्य्यान्मन्दिरं बुधः । चतुरस्रे गृहे कारो गृहिणां धननाशनम् ॥ दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतम् । शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम् ॥ प्रस्थे हस्तद्वयात् पूर्व्वं दीर्घे हस्तत्रयं तथा । गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च । न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिके शुभम् ॥ चतुरस्रं चन्द्रवेधं शिविरं मङ्गलप्रदम् । अभद्रं सूर्य्यवेधञ्च शिविरं मङ्गलाप्रदम् । अभद्रदं सूर्य्यवेधं प्राङ्गनञ्च तथैव च ॥ शिविराभ्यन्तरे भद्रा स्थापिता तुलसी नृणा धनपुत्त्रप्रदात्री च पुण्यदा हरिभक्तिदा ॥ प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् । मालती यूथिका कुन्दमाधवी केतकी तथा ॥ नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम् । अपराजिता च सुभदा तेषामुद्यानमीप्सितम् ॥ पूर्व्वे च दक्षिणे चैव शुभदं नात्र संशयः । ऊर्द्ध्वं षोडशहस्तेभ्यो नैवं कुर्य्याद्गृहं गृही ॥ ऊर्द्ध्वं विंशति हस्तेभ्यः प्राकारं न शुभप्रदम् । सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम् ॥ वाटीमूले ग्राममध्ये न कुर्य्यात् स्थापनं बुधः । ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम् ॥ भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके ॥ * प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् । परितः शिविराणाञ्च गम्भीरं दशहस्तकम् ॥ सङ्केतपूर्वकञ्चैव परिखाद्वारमीप्सितम् । शत्रीरगम्यं मित्रस्य गम्यमेव सुखेन च ॥ शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव च । निम्बानां सिन्धूवाराणां उडम्बराणामभद्रकम् ॥ धुस्तूराणां वटानाञ्चाप्येरण्डानामवाञ्छितम् । एतेषामतिरिक्तानां शिविरे काष्ठमीप्सितम् ॥ वृक्षञ्च वज्रहतकं दूरतो वर्जयेद्बुधः । पुत्त्रदारधनं हन्यादित्याह कमलोद्भवः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः



Correction: