वाचस्पत्यम्
शिंशपा || स्त्री शिवं पाति पा—क पृषो० । (शिशु) वृक्षे अमरः “शिंशपा कटुका तिक्ता कषाया शोमकारिणी । उष्ण- वीयां हरेन्मेदःकुष्ठचित्रयमिक्रमीन् । वस्तिज्याव्रण- दाहास्नबलासगभैपातिनी” भावप्र० ।
शब्दकल्पद्रुमः
शिंशपा || स्त्री वृक्षविशेषः । शिशु इति भाषा । तत्पर्य्यायः । पिच्छिला २ अगुरुः ३ कपिला ४ भस्मगर्भा ५ । इत्यमरः ॥ अगुरुशिंशपा ६ । इति भरतः ॥ कृष्णसारा ७ । इति जटाधरः ॥ पिङ्गला ८ पिच्छला ९ बीरा १० । इति रत्न- माला ॥ * ॥
यथा, —
“शिंशपा गुरुसारा च पिच्छिला गुरुशिंशपा । सा चेत् कपिलवर्णा स्याद्भस्मगर्भा निगद्यते ॥ क्वचित्तु कपिला भस्मगर्भा चागुरुशिंशपा । पिच्छिला शिंशपा युग्मपत्रिकागुरु चेत्यपि ॥” इति शब्दरत्नावली ॥ अस्या गुणाः । “शिंशपा वातनाशिनी ।” इति राजवल्लभः ॥ अपि च । “शिंशपा कटुका तिक्ता कषाया शोषकारिणी । उष्णवीर्य्या हरेन्मेदः कुष्ठचित्रवमिकृमीन् । वस्तिवद्ब्रणदाहास्रवलासागर्भपातिनी ॥” इति भावप्रकाशः ॥ (तत्काष्ठनिर्म्मितरथस्तु दृढो भवति । यथा, ऋग्- वेदे । ३ । ५३ । १९ । “अभिव्ययस्व खदिरस्य सार- मोजो धेहि स्पन्दने शिंशपायाम् ।” स्पन्दने रथस्य गमने सति शिंशपायां शिंश- पाख्यदारुनिर्म्मिते रथस्य फलके ओजो धेहि दार्ढ्यं कुरु ।” इति तद्भाष्ये सायणः ॥)