वाचस्पत्यम्
शिशुपाल || पु० चेदिदेशीयराजभेदे दमघोषात्मजे त्रिका० ।
शब्दकल्पद्रुमः
शिशुपालः || पुं, चेदिदेशीयराजः । स तु कृष्णेन हतः । शिशुपालवधकाव्यं माघेन कृतमा तत्पर्य्यायः । दमधोषसुतः २ चैद्यः ३ चदि राड् ४ । इति जटाधरः ॥ शिशुपालकः ५ । इति त्रिकाण्डशेषः ॥ (यथा, भागवते । ७ । १० । ३८ । “ताविहाथ पुनर्जातौ शिशुपालकरूषजौ । हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥”)