वाचस्पत्यम्
शिश्न || पु० शश—नक् नि० । मेढ्रे पुंचिह्नभेदे अमरः ।
शब्दकल्पद्रुमः
शिश्नः || पुं, (शशतीति । शश + बाहुलकात् नक्- प्रत्ययेन साधुः ।)
मेढ्रः । इत्यमरः ॥ (यथा, भागवते । २ । ६ । ८ । “पंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः ॥”)
अस्य पर्य्यायः लिङ्गशब्दे द्रष्टव्यः ॥