संस्कृत-शब्दकोशः

शिश्न शिष

शिश्विदान

वाचस्पत्यम्

शिश्विदान ||‍ त्रि० श्विद—कानच् द्वित्वम् । पापकारके अमरः


शब्दकल्पद्रुमः

शिश्विदानः || त्रि (श्वेतितुमिच्छतीति । श्वित + सन् + “श्वितेर्दश्च ।” उणा० २ । ९३ । इति आनच् सनो लुक् तकारस्य च दकारः । पापकर्म्मा । तत्पर्य्यायः । कृष्णकर्म्मा २ । इत्यमरः ॥ द्वे पापाचारे । शश्वन्निन्द्यतेऽसौ शिश्विदानो मनी- षादिः द्वितालव्यः । कृष्णं पापाचारत्वात् मलिनं कर्म्मास्य कृष्णकर्म्मा । केचित्तु अकृष्ण- कर्म्मा इति पठन्ति । द्वे निष्पापे । श्विदि शौक्ले इत्यस्य काने शिश्विदानः । अकृष्णं निष्पाप- त्वात् शुक्लं कर्म्मास्य अकृष्णकर्म्मा शुक्लकर्म्मा इत्यर्थः । इति व्याचक्षते च । इति भरतः ॥ * ॥
“शिश्विदानः कृष्णकर्म्मा शुक्लकर्मेति कस्य- चित् ॥” इति जटाधरः ॥ (यथा, प्रद्युम्नविजये । ७ । अङ्के । “खाङ्गिक ! छिद्यतां छिद्यतां एष क्षुद्रः शिश्विदानः ॥”)



Correction: