संस्कृत-शब्दकोशः

शिष्ट शिष्टि

शिष्टाचार

वाचस्पत्यम्

शिष्टाचार ||‍ पु० शिष्टानामाचारः । सह्यवहारे “ततः स्मार्त्तः स्मृतो धर्मो वर्णाश्रमविभागशः । एवं वै विविधो धर्मः शिष्टाचारः स उच्यते । त्रयी वार्त्ता दण्डनीतिः प्रजा वर्णाश्रमेज्यया । शिष्टैराचर्य्यते यस्मात् शिष्टाचारः स शाश्वतः । दानं सत्यं तपोऽलोभो विद्येज्या पूजनं दमः । अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् । शिष्टमस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ये । मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः । श्रुतिस्मृतिभ्यां विहितो धर्म्मो वर्णाश्रमात्मकः । शिष्टाचारविवृद्धस्तु धर्मः स साधुस- म्मतः” मत्स्यपु० १२५ अ० । “आचारश्चैव साधूनामिति” मनुना तस्य धर्मे प्रामाण्यमुक्तं स च वेदाविरुद्ध एव प्रमाणम् श्रुतिस्मृत्योर्भिन्नविषयत्वे सदाचारेण तत्र धर्म- निर्णयः । श्रुतिविराधे स्मृतेरप्रामाण्यवत् स्मृतिविरोधे सदाचारस्य न धर्मनिर्णायकत्वम् । तेन दाक्षिणात्यानां मातुलकन्याविवाहस्य शिष्टैराचर्य्यमाणत्वेऽपि न प्रमा- णता । तदेतत् “विरोधे त्वनपेक्षं स्यादसति ह्यनुसानं जैमि० सूत्रेण निर्णीतम् । वशिष्ठेनापि “तदभावे शिष्टाचारः प्रमाणम्” इत्युक्तम् । ततश्च शिष्टाचारेण सूलस्मृतिरनुमीयते यथा होलकाद्याचारात् । ततः स्मृत्या मूलश्रुतिरनुयातव्येति अधिकरणमाला । अत- एव अविगोतशिष्टाचारपरम्पराप्राप्तं ग्रन्थादौ मङ्ग- लाचरणं मङ्गलवादादौ व्यवस्थापितम् ।


शब्दकल्पद्रुमः

शिष्टाचारः || पुं, (शिष्ट आचारः । शिष्टानामा- चारो वा ।)
साधुव्यवहारः । यथा, —
“ततः स्मार्त्तः स्मृतो धर्म्मो वर्णाश्रमविभागशः । एवं वै द्विविधो धर्म्मः शिष्टाचारः स उच्यते ॥ त्रयी वार्त्ता दण्डनीतिः प्रजा वर्णाश्रमेज्यया । शिष्टैराचर्य्यते यस्मात् शिष्टाचारः स शाश्वतः ॥ दानं यत्यं तपोऽलोभो विद्येज्या पूजनं दमः । अष्टौ वानि चरित्राणि शिष्टाचारस्य लक्ष- णम् ॥ शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ये । मन्वन्तरेषु सर्व्वेषु शिष्टाचारस्ततः स्मृतः ॥ श्रुतिस्मृतिभ्यां विहितो धर्म्मो वर्णाश्रमात्मकः । शिष्टाचारविवृद्धस्तु धर्म्मः स साधुसम्मतः ॥” इति मात्स्ये १२० अध्यायः ॥



Correction: