संस्कृत-शब्दकोशः

शिह्ल शी

शिह्लक

शब्दकल्पद्रुमः

शिह्लकः || पुं, (शिह्ल एव । स्वार्थे कन् ।)
गन्धद्रव्य- विशेषः । शिलारसः । शिह्ला इति लोवान् इति च भाषा । तत्पर्य्यायः । कपिनामा २ कपिः ३ तैलम् ४ कृत्रिमम् ५ कपिलः ६ चला ७ तुरुष्कः ८ मुक्तिमुक्तः ९ पिण्डातः १० वरः ११ । इति रत्नमाला ॥ पिण्डकः १२ सिह्वः १३ यावनः १४ । इत्यमरः ॥ अस्यानुलेपनगुणाः । “शिह्नकः परमा मांसी देवदारु मुरा नखम् । सर्व्वेऽमी परमा लक्ष्मी रक्षोघ्ना ज्वरनाशनाः ॥” रौक्ष्यघ्ना इति वा पाठः । इति राजवल्लभः ॥ अन्यत् तुरुष्कशब्दे द्रष्टव्यम् ॥



Correction: