वाचस्पत्यम्
शीघ्रचेतन || पुंस्त्री० शीघ्रा चेतना यस्य । १ कुक्कुरे शब्दमा० स्त्रियां ङीष् । २ द्रुतचेतनायुते त्रि० ५ ब० । ४ अर्कवृक्षे पु० । ५ अतिबलायां स्त्री राजनि० ।
शब्दकल्पद्रुमः
शीघ्रचेतनः || पुं, (शीघ्रं चेततीति । चित + ल्युः ।)
कुक्कुरः । इति शब्दमाला ॥ द्रुतचेतनायुक्ते, त्रि