शब्दकल्पद्रुमः
शीतकिरणः || पुं, (शीतं शीतलं किरणं यस्य ।)
चन्द्रः । यथा, —
“कान्ते कोऽयमुदेति शीतकिरणो जातः कुतो वारिधौ कस्ते सुन्दरि सोदरः करमहो दत्ते त्वदीये स्तने । धन्या त्वं युवती सती कुलवती भ्रातापि धन्य- स्तव इत्थं श्रीपरिहासकेलिकलया मुग्धो हरिः पातु वः ॥” इत्युद्भटः ॥