शीतवल्क
शीतशिव
शीतवीर्यक
वाचस्पत्यम्
शीतवीर्य्यक || पु० शीतं शीतलकर वीर्यं यस्मात् ५ ब० । कप् । १ प्लक्षवृक्षे राजनि० । २ शीतलवीर्य्यकरे त्रि० ।
शब्दकल्पद्रुमः
शीतवीर्य्यकः || पुं, (शीतं वीर्य्यं यस्य । कन् ।)
प्लक्षवृक्षः । इति राजनिर्घण्टः ॥ शीतलवीर्य्य- युक्ते, त्रि ॥