वाचस्पत्यम्
शीतशिव || न० शीतं शीतलमपि शिवम् । १ सैन्धवलवणै २ शैले- यनामगन्धद्रव्ये अमरः । २ मिश्रेकायां ४ शमीवृक्षे च स्त्री राजनि० ५ सक्तुफलवृक्षे मेदि० ६ मधुरिकायां पु० अमरः ।
शब्दकल्पद्रुमः
शीतशिवं || क्ली (शीते शीतकाले शिवं मङ्गल- प्रदम् ।)
सैन्धवलवणम् । शैलेयनामगन्धद्रव्यम् । इत्यमरः ॥
शब्दकल्पद्रुमः
शीतशिवः || पुं, (शीते शीतकाले शिवः शुभप्रदः । मधुरिका । इत्यमरः ॥ शक्तुफलावृक्षः । इति मेदिनी ॥