वाचस्पत्यम्
शीत्कार || पु० शीदित्यस्य कारः शीत् + कृ—घञ् । स्त्रीणां रति काले अव्यक्ते ध्वनिभेदे जटा० ।
शब्दकल्पद्रुमः
शीत्कारः || पुं, (शीदितिशब्दस्य कारः करणम् ।)
वरस्त्रीणां रतिकालध्वनिः । यथा, —
“शीत्कारो रतनारीचः सुरते वरयोषिताम् ।” इति जटाधरः ॥ (शीत्कृतिमात्रे । यथा, कथासरित्सागरे । १ । २ । “सन्ध्यानृत्योत्सवे ताराः करेणोद्भूय विघ्नजित् । शीत्कारशीकरैरन्याः कल्पयन्निव पातु वः ॥”)