संस्कृत-शब्दकोशः

शीधुप शीफालिका

शीन

वाचस्पत्यम्

शीन ||‍ त्रि० श्यै—क्त सम्प्र० तस्य नः । १ धनीभूते घृतादौ २ मूर्खे ३ अजगरे च पु० मेदि० ।


शब्दकल्पद्रुमः

शीनं || त्रि (श्यैङ गतौ + क्तः । “द्रवमूर्त्तिस्पर्शयोः श्यः ।” ६ । १ । २४ । इति सम्प्रसारणम् । “श्योऽस्पर्शे ।” ८ । २ । ४७ । इति नः ।)
घनीभूतघृतादि । इति मुग्धबोधव्याकरणम् ॥


शब्दकल्पद्रुमः

शीनः || पुं, (श्यै + क्तः ।)
मूर्खः । अजगरः । इति मेदिनी ॥



Correction: