संस्कृत-शब्दकोशः

शीरक शीरिन्

शीरध्वज

शब्दकल्पद्रुमः

शीरध्वजः is an alternate of सीरध्वजः. सी(शी)रध्वजः || पुं, (सीरः ध्वजे यस्य ।)
चन्द्र- वंशीयराजविशेषः । स तु ह्रस्वरोमराजपुत्त्रः । यस्य पुत्त्रार्थं यजनभुवं कृषतः सीरे सीता दुहिता समुत्पन्ना तस्य पुत्त्रो भानुमान् । इति विष्णुपुराणे । ४ । ५ । १२ ॥ (भागवतमतेऽस्य पुत्त्रः कुशध्वजः । यथा, तत्रैव । ९ । १३ । १८ । “ततः सीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् । सीता सीराग्रतो जाता तस्मात् सीरध्वजः स्मृतः ॥ कुशध्वजस्तस्य पुत्त्रस्ततो धर्म्मध्वजो नृपः ॥”)



Correction: