वाचस्पत्यम्
शीर्णपत्त्र || पु० शीर्णं पत्त्रमस्य । १ कर्णिकारवृक्षे शब्दच० । २ निम्बे ३ पट्टिकालोध्रे च राजनि० ४ विशीर्णपत्त्रयुक्ते त्रि० । कर्म० । ५ विशीर्णे पर्णे न० ।