वाचस्पत्यम्
शीर्णवृन्त || न० शीर्णं वृन्तमस्य । (तरमुज) फलवृक्षे शब्दच० ।
शब्दकल्पद्रुमः
शीर्णवृन्तं || क्ली (शीर्णं वृन्तं यस्य ।)
वृहद्गोलम् । इति शब्दचन्द्रिका ॥ तरमुज् इति भाषा । तत्पर्य्यायः । सुखवामः २ । इति रत्नमाला ॥ सुखाशः ३ । इति केचित् ॥ अस्य गुणाः । कफभेदाग्निरुचिशुक्रकारित्वम् । क्षारत्वम् । मधुरत्वम् । आनाहप्लीहनाशित्वम् । लघु- पाकितश्च । इति राजवल्लभः ॥