वाचस्पत्यम्
शीर्ष || न० शिरस् + पृषो० शीर्षादेशः शृ—क सुक्च वा । १ मस्तके अमरः । २ कृष्णागुरुणि राजनि० । शसादौ शीष्णः शीर्ष्णा इत्यादि ।
शब्दकल्पद्रुमः
शीर्षं || क्ली मस्तकम् । इत्यमरः ॥ (यथा, हरि- वंशे । १७८ । ६ । “शीर्षाणां वै सहस्रन्तु विहितं शार्ङ्गधन्वना । सहस्रञ्चैव कायानां वहन् सङ्कर्षणस्तदा ॥”)
कृष्णागुरुः । इति राजनिर्घण्टः ॥