संस्कृत-शब्दकोशः

शीर्षच्छेदिक शीर्षण्य

शीर्षच्छेद्य

वाचस्पत्यम्

शीर्षच्छेद्य(दिक) ||‍ त्रि० शीर्षच्छेदमर्हति यत् ठन् वा । बध्ये “शीर्षच्छेद्यमतोऽहं त्वाम्” भट्टिः ।


शब्दकल्पद्रुमः

शीर्षच्छेद्यः || त्रि (शीर्षच्छेदं नित्यमर्हतीति । “शीर्षच्छेदात यच्च ।” ५ । १ । ६५ । इति यत ।)
मस्तकच्छे दनोपयक्तः । वध्यः । इत्यमरः ॥ (यथा, उत्तरचरिते २ अङ्के । “शम्वको नाम बृषलः पृथिव्यां तप्यते तपः । शीर्षच्छेद्यः सते राम तं हत्वा जीवय द्विजम् ॥”)
शीर्षण्यं, क्ली, (शिरसे हितम् । शिरस् + “शरीरावयवात् यत् ।” ५ । १ । ६ । इति यत् । “ये च तद्धिते ।” ६ । १ । ६१ । इति शिरसः शीर्ष- न्नादेशः ।)
शीर्षकम् । शिरस्त्रम् । इत्यमरः ॥ त्रीणि शिरोरक्षणमन्नाहे टोप् इति ख्याते । शीर्षे कं सुखमस्मात् शीर्षकम् । शीर्षमारो हति शीर्षण्यं ढघे कादिति यः । शिरस्त्रायते शिरस्त्रं डः । इति भरतः ॥



Correction: