संस्कृत-शब्दकोशः

शील शीलवत्

शीलन

वाचस्पत्यम्

शीलन ||‍ न० शी—ल्युट् । १ अभ्यासे २ अतिशायने ३ प्रवर्त्तने च


शब्दकल्पद्रुमः

शीलनं || क्ली (शील + ल्युट् ।)
अभ्यासनम् । (यथा, महाभारते । १२ । ३२१ । ४३ । “पुरा वृका भयङ्करा मनुष्यदेहगोचराः । अभिद्रवन्ति सर्व्वतो यतस्व पुण्यशीलने ॥”)
अतिशायनम् । उपधारणम् । सेवानुभावनम् । प्रवर्त्तनम् । इति शोलधातोरनट्प्रत्ययेन निष्प- न्नम् ॥ पाठनिश्चयः । यथा, —
“भविनी गुणनी शीलनं स्मृतम् ।” इति ब्रह्मवर्गे त्रिकाण्डशेषः ॥



Correction: