शब्दकल्पद्रुमः
शीलवान् || [त्] त्रि, (शीलमस्यास्तीति । शील + मतुप् । मस्य वः ।)
शीलविशिष्टः । सत्- स्वभावः । यथा, —
“पथ्याशिनां शीलवतां नराणां सद्वृत्तभाजां विजितेन्द्रियाणाम् । एवंविधानामिदमायुरत्र चिन्त्यं सदा वृद्धमुनिप्रवादः ॥” इति मलमासतत्त्वम् ॥ सद्वृत्तः । इति शीलशब्दार्थदर्शनात् ॥