वाचस्पत्यम्
शुकवल्लभ || पु० ६ त० । १ दाडिमवृक्षे राजनि० ६ त० । तस्य २ प्रिय त्रि० ।
शब्दकल्पद्रुमः
शुकवल्लभः || पुं, (शुकस्य वल्लभः प्रियः ।) दाडिमः । इति राजनिर्घण्टः । शुकप्रिये, त्रि ॥